________________
आचार्यपरिभावी
वामावर्त्तः
पिशुनः
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
डहरों अकुलीणो त्तिय, दुम्मेहो दमग मंदबुद्धि त्ति । अवि अप्पलाभली, सीसो परिभवइ आयरियं ॥ ७७२ ॥
कश्चित् कुशिप्यः सूचया असूचया वा आचार्यं परिभवति । सूचा नाम स्वव्यपदेशेन परखरूपसूचनम्, यथा कोऽपि वयःपरिणतः साधुर्बालकमाचार्यं ब्रवीति — अद्यापि 'डहरा : ' 5 बालका वयम्, किं नामास्माकमाचार्यपदस्य योग्यत्वम् ? इति । असूचा स्फुटमेव परदोषोद्धनम्, यथा--- भो आचार्य ! त्वं तावदद्यापि "डहरो" मुग्धः क्षीरकण्ठो वर्तसे, अतः कीदृशं भवत आचार्यत्वम् ? इति । योऽकुलीन आचार्यस्तमुद्दिश्य भणति – अहो ! उत्तमकुलसम्भूता अमी योग्या एवाऽऽचार्यपदस्य, वयं तु हीनकुलोत्पन्नाः, कुतोऽस्माकं सूरिपदयोग्यता ? | यद्वा धिक् कष्टं यदकुलीनोऽप्ययमाचार्यपदे निवेशित इति । तथा 'दुर्मेधाः ' मन्द10 प्रज्ञः 'द्रमकः' नाम दरिद्रो भूत्वा यः प्रत्रजितः 'मन्दबुद्धिः ' खल्पमतिः । अपिः सम्भावनायाम्, सम्भाव्यते कुतोऽपि कारणादेवंविधोऽप्याचार्य इति । अल्पा- तुच्छा वस्त्र - पात्रादिलाभे लब्धिर्यस्य सोऽल्पलाभलब्धिः । एतानप्येवमेव सूचया असूचया च परिभवति ॥ ७७२ ॥ अथ शिष्यपदं व्याचष्टे
२४२
15
सोविय सीसो दुविहो, पव्वावियगो अ सिक्खओ चेव । सो सिक्ख अतिविहो, सुत्ते अत्थे तदुभए य ॥ ७७३ ॥ यः शिष्यो गुरून् परिभवति सोऽपि च द्विविधः - प्रत्राजितकश्च शिक्षकश्चैव । यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहितः स प्रत्राजितकः । शिक्षकस्तु गच्छान्तरादध्ययनार्थमागतः । स च शिक्षकस्त्रिविध:--सूत्रेऽर्थे तदुभये च सूत्रग्राहकोऽर्थग्राहकस्तदुभयग्राहकश्चेत्यर्थः ॥ ७७३ ॥ गतमाचार्यपरिभाविद्वारम् । सम्प्रति वामावर्त्तद्वारमाह
20
[ अनुयोगाधिकारः
एहि भणिओ उ वच्चर, वच्चसु भणिओ दुतं समल्लिया ।
जं जह भण्णति तं तह, अकरेंतो वामवट्टो उ ॥ ७७४ ॥
यः शिष्यः 'एहि' आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् 'द्रुतं' शीघ्रं समालीयते । एवमन्यदपि कार्यं यद् यथा भण्यते तत् तथा अकुर्वाणो वामावर्त्त उच्यते ॥ ७७४ ॥ अथ पिशुनद्वारमाह
25
पीईसुण्णण पिसुणो, गुरुगाह चउण्ह जाव लहुओ उ ।
अहव असंतासंते, लहुगा लहुगो गिही गुरुगा ॥ ७७५ ॥ “पीईसुण्णण" चि अलीकानीतराणि वा परदूषणानि भाषमाणः प्रीतिं शून्यां करोतीति पिशुनः, नैरुक्ती शब्दनिष्पत्तिः । स च यद्याचार्यस्य पैशून्यं करोति तदा चतुर्गुरु, उपाध्यायस्य करोति चतुर्लघु, भिक्षोः करोति मासगुरु, क्षुल्लकस्य करोति मासलघु इति चूर्ण्यभिप्रायः । 30 निशीथ चूर्ण्य भिप्रायेण तु यद्याचार्यः पैशुन्यं करोति तदा चत्वारो गुरवः, उपाध्यायः करोति चत्वारो लघवः, भिक्षुः करोति मासगुरु, क्षुल्लकः करोति मासलघु । अमुमेवार्थं २ " आयरियस्स जति करोति तो :, वसभस्स
१ कार्य मध्ययना - ऽध्यापनादिकं यद् भा० ॥ ::, भिक्खुस्स •, खुड्डगस्स० ।” इति चूर्णिपाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org