SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ७६६–७१ ] पीठिका | धि-वीरियपरिहीणो, दुब्बलचरणो अणट्ठाए ॥ ७६९ ॥ मूलगुणोत्तरगुणविषयानपराधान् यः प्रतिसेवते । कथम् ? इत्याह – 'पञ्चकादि यावच्चरमम्' इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिन्दिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते, आदिशब्दाद् दशरात्रिन्दिवादिप्रायश्चित्तस्थानानि यावत् चरमं सर्वोत्कृष्टचरणापरा - धलक्षणं पाराञ्चिकप्रायश्चित्तस्थानमिति । कथम्भूतः सन् प्रतिसेवते ? इत्याह 'धृति - वीर्यपरि - 6 हीणः' मानसिकावष्टम्भबलरहितः असौ, न खल्वनीदृशश्वरण -करण विषयभूतान्यपराधपदान्यासेवितुमुत्सहते । D. सोऽपि यदि पुंष्टालम्बनतः प्रतिसेवते ततो न दोषभाग् भवेदित्याह"अणट्टाए" त्ति अर्थः- दर्शन - ज्ञानादिकं प्रयोजनं तदभावोऽनर्थं तेन यः प्रतिसेवते स एष दुर्बलचरणः ॥ ७६९ ॥ एवंविधस्य च्छेदश्रुतार्थदाने दोषबाहुल्यख्यापनार्थमिदमाह - पंचमहव्वयभेदो, छक्कायवहो अ तेणऽणुन्नाओ । २४१ सुहसील- वियत्ताणं, कहेह जो पवयणरहस्तं ॥ ७७० ॥ 'तेन' आचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्वानुज्ञातः, यः 'सुखशीला - ऽव्यक्तान' सुखं - शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः - पार्श्वस्थादयः, अव्यक्ताः श्रुतेन वयसा च, सुखशीलाश्चाव्यक्ताश्चेति द्वन्द्वस्तेषामिति चूर्णिकृतोऽभिप्रायः । निशीथचूर्णिकृतः पुर्नरयम् — सुखे - शरीरसौख्ये शीलं - स्वभावो व्यक्तः - परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम्, यद्वा 15 सुखं-मोक्षसौख्यं तद्विषयं यत् शीलं - मूलोत्तरगुणानुष्ठानं ततो विगतो यल:- उद्यम आत्मा वा येषां ते सुखशीलवियत्नाः सुखशीलव्यात्मानो वा तेषाम् उभयत्रापि पार्श्वस्थादीनामित्यर्थः । 'प्रवचनरहस्यं' छेदग्रन्थार्थतत्त्वं कथयति ॥ ७७० ॥ कथं पुनस्तेन पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातो भवति ? इति उच्यतेनिस्साणपदं पीes, अनिस्साणविहारयं न रोएइ । तं जाण मंदधम्मं, इहलोगगवेसगं समणं ॥ ७७१ ॥ निश्रीयते—मन्दश्रद्धाकैरासेव्यत इति निश्राणं तच्च तत् पदं च निश्राणपदम् - अपवादपदमित्यर्थः, तदेव यः ' स्पृहयति' रुचिपदमवतारयति, अनिश्राणविहारितां तु न रोचयति, तमेवंविघं श्रमणं जानीहि मन्दधर्माणं 'इहलोकगवेषकं' मनोज्ञभक्त - पानाद्युपभोगेन केवलस्यैवेह - लोकस्य चिन्तकं परलोकपराङ्मुखम् । एवंविधस्य च प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहा- 25 व्रतभेदः षट्कायवधश्च भवतीति युक्तमुक्तं "तेनानुज्ञातः” इति ॥ ७७१ ॥ गतं दुर्बलचारित्रद्वारम् । अथाऽऽचार्यपरिभाविद्वारमाह १ एतदन्तर्गतः पाठः भा० त० कां० ॥ २ "सुखं शीलं भजतीति सुखशीलं काङ्क्षतीत्यर्थः, न व्यक्तोऽव्यक्तः श्रुतेन वयसा चेत्यर्थः ।” इति चूर्णिपाठः ॥ ३ कृतो व्याख्यानम् । निशी भा० 'कृतः । निशी' डे० ॥ ४ नरिदम् - सुखे - सुखविषयं शीलं व्यक्तं - परिस्पष्टं सर्वजनप्रत्यक्षं येषां भा० ॥ ५ ० विनाऽन्यत्र - तद् यः स्पृहयति, तदेवैकं रोचयतीति भावः, अनि भा० । तदेव यः स्पृहयति अनि° डे० मो० ले० कां० ॥ ६ 'मन्दधर्माणं' तुच्छधर्मश्रद्धाकं 'इह भा० ॥ बृ० ३१ Jain Education International For Private & Personal Use Only 10 20 www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy