________________
२४०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः एमेव उवहि सेन्जा, गुणोवगारी उ जस्स जं होइ।।
सो तेण जोययंतो, तदभावे तिंतिणो होइ॥७६६ ॥ एवमेवोपधि-शय्ययोरपि संयोजनाया भावना कार्या । सा चेयम्-उपधिसंयोजना द्विविधा-बहिरन्तश्च । तत्र बहिःसंयोजना उत्कृष्टं कल्पं लब्ध्वा चोलपट्टकमपि उत्कृष्टमुत्पा• दयति, और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पादयति, उत्पाद्य च तदुभयपरिभोगेन संयोजयति ।जा अन्तःसंयोजना पुनर्विभूषार्थ श्वेतकम्बल्यां कृष्णदवरकसीवनिकां ददाति इत्यादि । शय्या-प्रतिश्रयस्तस्य संयोजनाऽपि द्विविधा-बहिरन्तश्च । तत्र बहिःसंयोजना अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति । अन्तःसंयोजना शोभायं प्रतिश्रयं गोमय-मृदादिना लिम्पति सेटिकया वा धवलयति । अथवा शय्याशब्देन संस्तारक उच्यते, ततश्च 10 सुन्दरतरं संस्तारकं लब्ध्वा यद् उत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुते सा बहिःसंयोजना । यत्
पुनः सुकुमारस्पर्शार्थ विभूषार्थ वा सुन्दरया भल्या संस्तारकं प्रस्तृणाति सा अन्तःसंयोजना । तदेवं यद् उपध्यादिकं 'यस्य' साधोः 'गुणोपकारि' विभूषादिगुणोपयोगि भवति सः 'तेन' विवक्षितेन वस्तुना सार्द्ध तदेव वस्तु 'योजयन्' मीलयन् 'तदभावे' विवक्षितवस्तुयोगाभावे 'तिन्तिणिको भवति' 'हा! नास्त्यमुकं वस्तु अत्र स्थण्डिलप्राये सन्निवेशे' इत्यादि जल्पती
त्यर्थः ॥ ७६६ ॥ गतं तिन्तिणिकद्वारम् । अथ चलचित्तद्वारमतिदेशेनैवाहचलचित्तः
चलचित्तो भावचलो, उस्सग्गज्ववायतो उ जो पुदि ।
भणितो सो चेव इहं, गाणंगणियं अतो वोच्छं ॥ ७६७ ॥ चलचित्त इह 'भावचलः' अपरापरशास्त्रपल्लवग्राही गृह्यते । स च उत्सर्गतोऽपवादतश्च यः पूर्वमचञ्चलद्वारे (गा० ७५५) भणितः स एवेहापि भणितव्यः । गाणङ्गणिकमत ऊर्ध्व 20 वक्ष्ये ॥ ७६७ ॥ तमेवाह
छम्मास अपूरिता, गुरुमा बारससमासु चउलहुगा । णिकः
तेण परं मासलहू, गाणंगणि कारणे भइतो ॥ ७६८॥ उपसम्पन्नः साधुः कारणाभावे षण्मासान् अपूरयित्वा यथेकस्माद् गणाद् अपरं गणं सक्रामति तदा तस्य चत्वारो गुरुकाः । षण्मास्याः परतो यावद् द्वादश समाः-वर्षाणि ता अपूरयित्वा 96 गच्छतश्चतुर्लघुकाः । ततः परं-द्वादशभ्यो वर्षेभ्य ऊर्द्ध निष्कारणं गणाद् गणं सङ्क्रामतो मासलघु । "गाणंगणि" ति भावप्रधानो निर्देशः, ततो गाणङ्गणिकत्वं 'कारणे' ज्ञान-दर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने 'भाज्यं सेवनीयम् । किमुक्तं भवति ?-कारणे मध्येद्वादशवर्षमन्तःषण्मासं वा गणाद् गणं सङ्क्रामन्नपि न प्रायश्चित्तभाग् भवतीति ॥ ७६८॥
गतं गाणङ्गणिकद्वारम् । सम्प्रति दुर्बलचारित्रद्वारमाह30
मूलगुण उत्तरगुणे, पडिसेवइ पणगमाइ जा चरिमं । १ यद् आहारोपध्यादिकं यस्य साधोः 'गुणोपकारि' सुखादतादिगुणोपयोगि भा० ॥ २°त्यादि परिदेक्नां करोतीत्यर्थः ॥ ७६६ ॥ व्याख्यातत्रिविधोऽपि भावतिन्तिणिकः, ततश्चावसितं] तिन्तिणिक° भा० ॥
गाण
दुबलचारित्रः 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org