Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 256
________________ भाष्यगाथाः ७०७-१०] पीठिका । २१५ भवति । इयमत्र भावना-लघुपञ्चकादीनि गुरुषाण्मासिकपर्यन्तानि यान्येव तपःस्थानानि तान्येव च्छेदस्यापीति तुल्यान्येवानयोः स्थानानि । एतेन च लघुपञ्चकादर्वाग् गुरुभ्यः षण्मासेभ्य ऊर्ध्व छेदो न भवतीत्यावेदितं द्रष्टव्यम् ॥ ७०७ ॥ अथ कीदृशस्य गणधरपदाध्यारोपणा विधीयते ? उच्यतेपढिय सुय गुणिय धारिय, करणे उवउत्तो छहिँ वि ठाणेहिँ । पदयोग्यः छट्ठाणसंपउत्तो, गणपरियट्टी अणुन्नाओ ॥ ७०८॥ "निशीथाध्ययने 'पठिते' सूत्रतः सम्पूर्णेऽप्यपीते, ततः 'श्रुते' अर्थतः सद्गुरुमुखादाकर्णिते, 'गुणिते' परावत्तना-ऽनुप्रेक्षाभ्यामत्यन्तखभ्यस्तीकृते, 'धारिते' चेतसि सम्यग्व्यवस्थापिते, ततः 'करणे' तदुक्ताया विधि-प्रतिषेधरूपाया आज्ञाया विधाने, 'उपयुक्तः' प्रमादरहितः, केषु ! इत्याह-'षट्सु स्थानेषु पञ्चसु महाव्रतेषु रात्रिभोजनविरमणषष्ठेष्वित्यर्थः, गाथायां प्राकृत-10 त्वात् तृतीयाथें सप्तमी । (ग्रन्थानम्-१०००) । एतैः षभिः स्थानैः पठित-श्रुत-गुणितधारित-यथोक्तकरण-व्रतषट्कोपयोगलक्षणैः सम् इति-समुदितैः प्रकर्षेण युक्तः सम्प्रयुक्तः 'गणपरिवर्ती' गच्छवर्तापकोऽनुज्ञातस्तीर्थकर-गणधरैः ॥ ७०८ ॥ अथवा सत्तऽ नवग दसगं, परिहरई जो विहारकप्पी सो। तिविहं तीहिँ विसुद्धं, परिहर नवएण मेएण ॥ ७०९॥ 16 य आचार्यादिः सप्तविधमष्टविधं नवविधं दशविधं प्रायश्चित्तं परिहरति, कथम्भूतं तत् ! इत्याह-'त्रिविधं' दान-तपः-कालप्रायश्चित्तभेदादेकैकमपि त्रिभेदं परिहारविषयेण नवकेन भेदेन परिहरति । तद्यथा-मनसा वचसा कायेन स्वयं परिहरति अन्यैः खपरिवारसाधुभिः परिहारयति अन्यान् परिहरतोऽनुमन्यते । याभिः प्रतिसेवनाभिः प्रतिसेविताभिः सप्तविधा. दिकं प्रायश्चित्तं भवति ताः करणत्रय-योगत्रयविशुद्धं परिहरतीति भावः ॥ ७०९ ॥ १० अथ कथं सप्तविधं प्रायश्चित्तं भवति ? इति उच्यते-आलोचनाहं प्रतिक्रमणाहं तदु. भयाई विवेकाहं व्युत्सर्गाहें तपोऽहं छेदाहमिति । अथ मूला-ऽनवस्थाप्य-पाराश्चिकानि कान्तर्भवन्ति ? उच्यते दुविहो अ होइ छेदो, देसच्छेदो अ सबछेदो अ। मूला-ऽणवट्ठ-चरिमा, सव्वच्छेओ अतो सत्त ॥ ७१० ॥ 25 इह च्छेदो द्विविधो भवति–देशच्छेदश्च सर्वच्छेदश्च । पञ्चकादिकः षण्मासपर्यन्तो देशच्छेदः । मूला-ऽनवस्थाप्य-पाराश्चिकानि पुनर्देशोनपूर्वकोटिप्रमाणस्यापि पर्यायस्य युगपत् छेदकत्वात् सर्वच्छेदः । एष द्विविधोऽपि सामान्यतश्छेदशब्देन गृह्यत इति विवक्षया सप्तविघं प्रायश्चित्तम् ॥ ७१० ॥ अथाष्टविध कथं भवति । इति उच्यते १'स्यापीति भावः ॥ ७०७ ॥ अथ भा० त• विना ॥ २ अत्र टीकादमिप्रायेण "छमुनि ठाणेसु" इति पाठो ज्ञेयः ॥ ३ आचारप्रकल्पाध्ययने 'पठि भा० ॥ ४°रणे' सूत्रतोऽर्थतो वाऽऽचारप्रकल्पाध्ययनोक्ताया विधि भा० ॥ ५ षु' प्राणातिपातविरमणादिषु पञ्चसु भा० ॥ ६°दनाह डे. त.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296