Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
२२०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः वा ?' इति पृच्छतामलीकभयादेव 'दृष्टम्' इति कथयति, आदिशब्दात् शूकरादिपरिग्रहः, न पुनर्जानीते यथा-"सच्चा वि सा न वत्तबा, जओ पावस्स आगमो" (दशवै० अ० ७ गा० ११) ति; ततश्च जलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपणं ते करिष्यन्ति तत् सर्वमुत्सारकल्पकारकः प्राप्नोति । तथा 'करणे' चारित्रे उत्सर्गा-ऽपवादविधिमजानन् 5 यद् विपर्यासं करोति, तद्यथा-'आगाढे' ग्लानादिकार्ये 'अनागाद' त्रिकृत्वः परिभ्रमणादिलक्षणम् , अनागाढे वा 'आगाढं' सद्यःप्रतिसेवनात्मकं करोति । एषा सर्वाऽपि संयमविराधना ॥ ७१८ ॥ अथ योगविराधनामाह
तुरियं नाहिजंते, नेव चिरं जोगजंतिता होति ।
लद्धो महंतसद्दो, ति केइ पासाइँ गेण्हति ।। ७१९ ॥ 10
कमजोगं न वि जाणइ, विगईओ का य कत्थ जोगम्मि ।
अण्णस्स वि दिति तहा, परंपरा घंटदिटुंतो ॥ ७२०॥ _ 'अनुज्ञातोऽस्माकं गुरुभिः सकलोऽपि श्रुतस्कन्धः, ततः किमनेन पठितेन कार्यम् ?' इति कृत्वा ते शिष्याः 'त्वरितं' शीघ्रं नाधीयते, नैव च ते चिरं योगैः-श्रुताध्ययननिबन्धनतपोविशेषैः यत्रिताः-नियमिता भवन्ति, एकदिनेनापि प्रभूतसूत्रार्थवाचनानुज्ञाप्रदानात् । तथा 15 'लब्धोऽस्माभिः 'गणिरयम् , वाचकोऽयम्' इति महान् शब्दः, ततः कुतो हेतोर्वयमत्राऽऽचार्यसन्निधौ निष्फलं तिष्ठामः ?' इति परिभाव्य 'केचिद्' गुरुचरणपर्युपासनापरिभमाः पार्शनि गृहन्ति, पार्श्वतो ग्रामेषु यथाखेच्छं विहरन्तीति भावः ॥ ७१९ ॥
"कमजोर्ग" इति प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, ततो योगक्रमं 'नापि' नैव जानाति, यथा-अस्मिन् योगे एतावन्त्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं वा उद्दे20 शादयः क्रियन्ते । तथा विकृतयः काः कुत्र योगे कल्पन्ते ? न वा ? इत्येवमपि न
जानाति, यथा-कल्पिकाकल्पिक-निशीथादियोगेषु न विसृज्यन्ते काश्चनापि विकृतयः, व्याख्याप्रज्ञप्तियोगेषु पुनरवगाहिमविकृतिर्विसृज्यते, दृष्टिवादयोगेषु तु मोदकः ।
तथा चाऽऽहाऽस्यैव कल्पाध्ययनस्य चूर्णिकृत्
जहा कप्पियाकप्पिय-निसीहाईणं विगईओ न विसजिजंति, पनत्तीए ओगाहिमग25 विगई विसजिज्जइ, दिट्ठीवाए मोदगो ति। .
निशीथचूर्णिकृत् पुनराह
जोगो दुविहो-आगाढो अणागाढो वा । आगाढतरा जम्मि जोगे जयणा सो आगाढो, यथा-भगवतीत्यादि । इतरो अणागाढो, यथा-उत्तराध्ययनादि । आगाढे ओगाहिमंगवज्जाओ नव विगईओ वज्जिज्जंति, दसमाए भयणा । महाकप्पसुए एका परं मोदग30 विगई कप्पइ । सेसा आगाढेसु सबविगईओ न कप्पंति । अणागाढे पुण दस वि विगईओ
१ ते उत्सारकल्पविषयभूताः शिष्याः 'अधिरूढा वयं वाचकपदवीम्, किमस्माकं पठितेन ?' इति कृत्वा न त्वरित' शीघ्रमधीयते, नैव भा० ॥ २ °गं" इति योगक्रम त. कां० विना ॥ ३°चामाम्ला भा० ॥ ४ उद्देशः लमुद्देशोऽनुज्ञा वा क्रियते। तथा" भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296