SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२० सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः वा ?' इति पृच्छतामलीकभयादेव 'दृष्टम्' इति कथयति, आदिशब्दात् शूकरादिपरिग्रहः, न पुनर्जानीते यथा-"सच्चा वि सा न वत्तबा, जओ पावस्स आगमो" (दशवै० अ० ७ गा० ११) ति; ततश्च जलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपणं ते करिष्यन्ति तत् सर्वमुत्सारकल्पकारकः प्राप्नोति । तथा 'करणे' चारित्रे उत्सर्गा-ऽपवादविधिमजानन् 5 यद् विपर्यासं करोति, तद्यथा-'आगाढे' ग्लानादिकार्ये 'अनागाद' त्रिकृत्वः परिभ्रमणादिलक्षणम् , अनागाढे वा 'आगाढं' सद्यःप्रतिसेवनात्मकं करोति । एषा सर्वाऽपि संयमविराधना ॥ ७१८ ॥ अथ योगविराधनामाह तुरियं नाहिजंते, नेव चिरं जोगजंतिता होति । लद्धो महंतसद्दो, ति केइ पासाइँ गेण्हति ।। ७१९ ॥ 10 कमजोगं न वि जाणइ, विगईओ का य कत्थ जोगम्मि । अण्णस्स वि दिति तहा, परंपरा घंटदिटुंतो ॥ ७२०॥ _ 'अनुज्ञातोऽस्माकं गुरुभिः सकलोऽपि श्रुतस्कन्धः, ततः किमनेन पठितेन कार्यम् ?' इति कृत्वा ते शिष्याः 'त्वरितं' शीघ्रं नाधीयते, नैव च ते चिरं योगैः-श्रुताध्ययननिबन्धनतपोविशेषैः यत्रिताः-नियमिता भवन्ति, एकदिनेनापि प्रभूतसूत्रार्थवाचनानुज्ञाप्रदानात् । तथा 15 'लब्धोऽस्माभिः 'गणिरयम् , वाचकोऽयम्' इति महान् शब्दः, ततः कुतो हेतोर्वयमत्राऽऽचार्यसन्निधौ निष्फलं तिष्ठामः ?' इति परिभाव्य 'केचिद्' गुरुचरणपर्युपासनापरिभमाः पार्शनि गृहन्ति, पार्श्वतो ग्रामेषु यथाखेच्छं विहरन्तीति भावः ॥ ७१९ ॥ "कमजोर्ग" इति प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, ततो योगक्रमं 'नापि' नैव जानाति, यथा-अस्मिन् योगे एतावन्त्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं वा उद्दे20 शादयः क्रियन्ते । तथा विकृतयः काः कुत्र योगे कल्पन्ते ? न वा ? इत्येवमपि न जानाति, यथा-कल्पिकाकल्पिक-निशीथादियोगेषु न विसृज्यन्ते काश्चनापि विकृतयः, व्याख्याप्रज्ञप्तियोगेषु पुनरवगाहिमविकृतिर्विसृज्यते, दृष्टिवादयोगेषु तु मोदकः । तथा चाऽऽहाऽस्यैव कल्पाध्ययनस्य चूर्णिकृत् जहा कप्पियाकप्पिय-निसीहाईणं विगईओ न विसजिजंति, पनत्तीए ओगाहिमग25 विगई विसजिज्जइ, दिट्ठीवाए मोदगो ति। . निशीथचूर्णिकृत् पुनराह जोगो दुविहो-आगाढो अणागाढो वा । आगाढतरा जम्मि जोगे जयणा सो आगाढो, यथा-भगवतीत्यादि । इतरो अणागाढो, यथा-उत्तराध्ययनादि । आगाढे ओगाहिमंगवज्जाओ नव विगईओ वज्जिज्जंति, दसमाए भयणा । महाकप्पसुए एका परं मोदग30 विगई कप्पइ । सेसा आगाढेसु सबविगईओ न कप्पंति । अणागाढे पुण दस वि विगईओ १ ते उत्सारकल्पविषयभूताः शिष्याः 'अधिरूढा वयं वाचकपदवीम्, किमस्माकं पठितेन ?' इति कृत्वा न त्वरित' शीघ्रमधीयते, नैव भा० ॥ २ °गं" इति योगक्रम त. कां० विना ॥ ३°चामाम्ला भा० ॥ ४ उद्देशः लमुद्देशोऽनुज्ञा वा क्रियते। तथा" भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy