________________
भाष्यगाथाः ७१८]
पीठिका |
२१९
वाचकं प्रश्नयति—–परमाणुपुद्गलस्य कतीन्द्रियाणि भवन्ति ? इति । ततः स एवंष्पृष्टः सन् किञ्चिन्मात्रपल्लवत्वरितग्राहितया यथोक्ताव्यभिचारिविचार बहिर्मुखत्वाच्चिन्तयति - - यः परमाणुपुद्गल एकस्माल्लोकचरमान्तादपरं लोकचरमान्तमेकेनैव समयेन गच्छति स निश्चितं पञ्चेन्द्रियः, कुतोऽनीदृशस्यैवंविधा गमनवीर्यलब्धि: ? - इत्यभिसन्धाय प्रतिवचनमभिधत्ते — भद्र ! परमाणुपुद्गलस्य पञ्चापीन्द्रियाणि भवन्तीति । तत एवंविधं निर्वचनमवधार्य स पुरुषः प्रत्यावृत्त्य 5 गतोऽन्ययूथिकानां सन्निधौ, कथितं सर्वमपि खरूपं तदग्रतः । ततश्चिन्तितं खचेतसि तैःनूनमयं शारदवारिद इव बहिरेव केवलं गर्जति, अन्तस्तु तुच्छ एव इति विमृश्य समागताः सम्भूय भूयांसं लोकमीलं कृत्वा वाचकान्तिकम् | क्षुभितोऽसौ खतुच्छतया तावन्तं समुदायमवलोक्य, सञ्जातखेदबिन्दुस्तबकितशरीर आक्षिप्तः साटोपमन्यतीर्थिकैः, ग्राहितो यथा - भिमतं पक्षविशेषम्, न शक्नोति निर्वोढुं प्रश्नितो दुस्तराणि प्रश्नोत्तराणि, न जानीते लेशतोऽपि 10 प्रतिवक्तुम् । ततः कृतो मिथ्यादृष्टिभिः 'जितं जितमस्माभिः' इत्युत्कृष्टिकलकलः, प्रादुर्भूतं प्रवचनमालिन्यम्, मुकुलितानि श्रमणोपासकवदनकमलानि, विप्रतिपन्ना यथाभद्रकादय इति ॥
I
अथ गाथाक्षरार्थः पूर्वं कैश्चिद् वाचकैरन्ययूथिकाः “मलिय" त्ति मानमर्दनेन मर्दिताः । तत उत्सारवाचके आगते सति 'प्रतिमर्दयन्ति' प्रत्यावृत्त्या मानमर्दनं कुर्वन्ति । कथम् ? इत्याह--"पडिलेह” इत्यादि । तैरन्यतीर्थिकैः प्रत्युपेक्षकः पुरुषः प्रेषितः । ततः स आगत्य 15 पृष्टवान् – 'पुद्गलस्य' परमाणोः कतीन्द्रियाणि ? । तेन च प्रत्युक्तम् — पश्चेति । ततस्तैर्बहुजनमध्ये स वाचको वादे निरुत्तरीकृतः । एवम् 'अपभ्राजना' लाघवं तीर्थस्य भवति । तत्र चाभिनवधर्मणां चेतसि विकल्प उपजायते--- यदि नाम वाचकोऽप्ययं न शक्नोति निर्वचनमर्पयितुं तद् नूनमेतेषां तीर्थकरेणैव न सम्यग् वस्तुतत्त्वं परिज्ञातम्, अन्यथा कथमेष एवंविधेऽर्थे व्यामुह्येत? - इति विपरिणामतो मिथ्यात्वगमनं भवेत् ॥ ७१७ ॥
भावितं मिथ्यात्वद्वारम् । अथ संयमविराधनां भावयति
जीवा - जीवे न मुणइ, अलियभया साहए दग - मिताई । करणे अविवच्चासं, करेइ आगाढणागाढे ॥ ७१८ ॥ जीवाश्चाजीवाश्च जीवा - जीवाः, तानसौ वाचनामात्ररूपेणोत्सारकल्पेनानुयोगमवगाह्यमानो 'वैवित्तयेन 'न मुणति' न जानीते, तदपरिज्ञानाच्च कुतः संयमसद्भावः ? |
तदुक्तं परमर्षिभिः
-
Jain Education International
20
25
जो जीवे विनयाणेइ, अजीवे विन याणई । जीवा -ऽजीवे अयाणंतो, कह सो नाहिइ संजमं ? ॥
( दशवै० अ० ४ गा० १२ ) तथा अलीकम्-असत्यं तद्भयाद् दक- मृगादीन् कथयति । किमुक्तं भवति : स उत्सार - 30 कल्पिकः पल्लवमात्रग्राहितया 'सत्यमेव भाषितव्यम्, नासत्यम्' इति कृत्वा उदकार्थिनां ‘नदी-तडागादौ पानीयमस्ति ? नास्ति वा ?' इति पृच्छताम् 'अलीकं मा भूत्' इति कृत्वा 'विद्यते नद्यादौ जलम्' इति कथयति, मृगयाप्रस्थितानां च व्याधानां 'दृष्टं मृगवृन्दम् ? न
For Private & Personal Use Only
www.jainelibrary.org