Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 268
________________ उत्सार भाष्यगाथाः ७३०-३६] पीठिका। २२७ दृष्टिवादग्रहणं वक्ष्यमाणकारणैरनयोरेवोत्सारणीयत्वादित्येवमर्थम् । “पुरिस-कारणविहिनू" इति पुरुष-कारणविधिज्ञो नाम 'किमयं पुरुष उत्सारकल्पमर्हति ? न वा ? येन च कारणेनो. सार्यते तदस्ति ? न वा ?' इत्येवंविधविधिवेदी तथा 'संविग्नः' मोक्षाभिलाषी 'अपरितान्तः' सूत्रार्थग्राहणायामहोरात्रमप्यपरिश्रान्त एवंविध उत्सारणं कर्तुमर्हति, एवंगुणोपेत एवोत्सारकल्पं करोतीत्यर्थः ॥ ७३२ ।। अथ यस्योत्सारकल्पः क्रियते तस्यै गुणानाहअभिगए पडिबद्धे, संविग्गे असलद्धिए । कल्पाई. अवढिए अ मेहावी, पडिबुज्झी जोअकारए ॥७३३ ॥ स्य गुणाः अभिगतः प्रतिबद्धः संविग्नश्च सलब्धिकः अवस्थितश्च मेधावी प्रतिबोधी योगकारकः, ईदृग्गुणोपेत उत्सारकल्पयोग्य इति नियुक्तिश्लोकसमासार्थः ।।७३३।। अथैनमेव विवृणोति ___ सम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा। 10 सज्झाए पडिबद्धो, गुरुसु नीएल्लएसुं वा ॥ ७३४ ॥ सम्यक्त्वे य आभिमुख्येनं गतः-प्रविष्टः सोऽभिगत उच्यते, यो वा जीवादिपदार्थानां 'विज्ञायकः' विशेषेण ज्ञाता सोऽभिगतः, यद्वा यः 'अभ्युपगतः' 'यावज्जीवं मया गुरुपादमूलं न मोक्तव्यम्' इति कृताभ्युपगमः सोऽभिर्गतः । यः पुनः 'खाध्याये' परावर्तना-ऽनुप्रेक्षादौ सततमायुक्तः, गुरुषु वा स्थिरममत्वानुबन्धः, 'निजकेषु' भ्रातृ-मातृव्या दिषु वा 15 सम्बन्धिषु प्रव्रज्याप्रतिपन्नेषु सञ्जातप्रेमस्थेमा, एष त्रिविधोऽपि प्रतिबद्ध उच्यते ॥ ७३४ ॥ संविग्गो दव्य मिओ, भावे मूलुत्तरेसु उ जयंतो। लद्धी आहाराइसु, अणुओगे धम्मकहणे य ॥ ७३५ ॥ संविमो द्विधा-द्रव्यतो भावतश्च । 'द्रव्ये' द्रव्यसंविमो मृगः, सदैव सर्वतोऽपि चकितत्वात् । 'भावे' भावसंविग्नः 'मूलोत्तरेषु तु' मूलगुणोत्तरगुणेषु पुनः 'यतमानः' उद्यमं 20 विदधानः साधुर्मन्तव्यः, सदैव संसारापायचकितत्वात् । तथा लब्धिराहारादिषूत्पादयितव्येषु अनुयोगे दातव्ये धर्मकथने च विधेये यस्य स सलब्धिक इति ॥ ७३५ ॥ लिंग विहारेऽवडिओ, मेरामेहावि गहणओ भइओ। पडिबुज्झइ जं कत्थइ, कुणइ अ जोगं तदद्वस्स ॥ ७३६ ॥ अवस्थितो द्विधा-लिङ्गे विहारे च । लिलावस्थितः खलिङ्गं न परित्यजति, विहाराव-25 स्थितः संविमविहारं विहाय न पार्श्वस्यादिविहारमाद्रियते । मेधावी द्विधा-ग्रहणमेधावी मर्यादामेधावी च । उभावपि वक्ष्यमाणखरूपौ । तत्र मर्यादामेधाविन उत्सारकल्पः क्रियते । १°स्य कियस्तो गुणा मृग्यन्ते ? इति, अत्रोच्यते भा० ॥ २ °रक इति सङ्गहगाथासमासार्थः ॥ ७३३ ॥ अथैनामेव विवरीषुराह भा० ॥ ३°न-आत्यन्तिकस्थैर्यलक्षणेन गतः-प्रविष्टः, तादात्म्येन परिणत इति यावत् सोऽभि भा० ॥ ४ गतोऽभिधीयते । यः पुनः भा०॥ ५°मानः' यथाशक्ति यतनां कुर्वाणः सदैव संसारापायचकितत्वात् ; न खल मलोत्तणणविकलस्तत्त्वतः सांसारिकापायाद बिमेतीति बहं शक्यम तथा लन्धि भा०॥६°हारं परित्यज्य न पा भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296