Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 280
________________ णिकः भाष्यगाथाः ७६१-६५] पीठिका । २३९ आयरियपारिभासी, वामाव? य पिसुणे य ॥ ७६२ ॥ आदीअदिट्ठभावे, अकडसमायारि तरुणधम्मे य । गविय पइण्णे निण्हइ, छेअसुए वजए अत्थं ॥ ७६३ ।। तिन्तिणिकश्चलचित्तो गाणङ्गणिकश्च दुर्बलचारित्रः आचार्यपरिभाषी आचार्यपरिभावी वा वामावर्तश्च पिशुनश्च "आदीअदिट्ठभावे" ति आदौ-आवश्यकादिशास्त्रेषु वर्तमाना अदृष्टा भावा येन स आद्यदृष्टभावः, तथा अकृतसामाचारीकः तरुणधर्मा च गर्वितः "पइण्ण" ति प्रकीर्णप्रश्नः प्रकीर्णविद्यश्च "निण्हइ" ति गुरुनिहवी एतेषां छेदश्रुतविषयमर्थ वर्जयेत्, न दद्यादित्यर्थ इति द्वारगाथाद्वयसमासार्थः ।। ७६२ ।। ७६३ ॥ व्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकद्वारं व्याचष्टेडझंतं तिंबुरुदारुयं व दिवसं पि जो तिडितिडेइ । 10तिन्तिअह दव्वतिंतिणो भावओ उ आहारुवहि-सेजा।। ७६४ ॥ 'तिम्बुरुकदारुकं' तिम्बुरुकवृक्षकाष्ठमनौ प्रक्षिप्तं दह्यमानं सद् यथा त्रटनटिति कुर्वदास्ते, एवं यो गुर्वादिभिः खरण्टितः सम्पूर्णमपि दिवसं “तिडितिडेइ" ति अनुकरणशब्दत्वात् 'बटघटायते' मम सम्मुखमिदमिदं च जल्पितमेभिरिति ऋषन्नास्ते इति भावः । अथैष द्रव्यतिन्तिणिकः । भावतस्तु तिन्तिणिकः त्रिविधः, तद्यथा-आहारे उपधौ शय्यायां चेति । पुन-15 रेकैको द्विविधः-अन्तःसंयोजनया बहिःसंयोजनया च ।। ७६४ ॥ तत्रोभयथाऽप्याहारतिन्तिणिकं तावदाह अंतो-बहिसंजोअण, आहारे पाहि खीर-दधिमाई । अंतो उ होइ तिविहा, भायण हत्थे मुहे चेव ॥ ७६५॥ आहारविषया संयोजना द्विविधा-अन्तर्बहिश्च । तत्र बहिस्तावद् भाव्यते-कश्चित् 30 साधुर्भिक्षामटन क्षीरं वा दघि वा लब्ध्वा रसगृनुतया कलमशालिप्रभृतिकमोदनं चिरगोचरचर्याकरणेनाप्युत्पाद्य यत् तेनैव क्षीरादिना सार्धमुपाश्रयाद् बहिः संयोजयति, आदिशब्दात् परमान्नादिकं वा लब्ध्वा घृत-खण्डादिना बहिरेव स्थितः सन् यद् योजयति एषा बहिःसंयोजना । अन्तस्तु प्रतिश्रयाभ्यन्तरे पुनः संयोजना त्रिविधा भवति, तद्यथा-भाजने हस्ते मुखे चैव । तत्र भाजनविषया यत्र भाजने कलमशाल्योदनस्तत्र दुग्ध-दध्यादि प्रक्षिपति । हस्त-25 विषया मण्डक-पूपलिकादिना गुड-शर्करादि हस्तस्थितं वेष्टयित्वा मुखे प्रक्षिपति । मुखविषया पूर्व मण्डकादि मुखे प्रक्षिप्य ततः शर्करा-खण्डादि प्रक्षिपति । एवंविधां द्विविधामप्याहारसंयोजनां लोभाभिभूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिक उच्यते ।। ७६५ ।। गत आहारतिन्तिणिकः । साम्प्रतमुपधि-शय्यातिन्तिणिकावतिदिशति-- १°यारिए तरुणधम्मे । ता० ॥२ °णपण्हे, छेयसुयं व ता. ॥३°ति झष भा० कां ॥ ४°ध्यादिकं प्रक्षिप्य तदुभयमपि संयोजयति। हस्त° भा०॥५°दिकं ह° भा० ॥६०दिक मु भा०॥ ७°दिकं प्रभा०॥ ८ अथोपधि-शय्या भा० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296