Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 277
________________ २३६ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः पूर्वमपि विज्ञातमासीत् , यथा-क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति, तत इदानीमप्युपरमध्वं भगवन्तः ! एतस्मात् प्रमादस्थानात् ; » एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते । बालो वा केलि-कन्दर्पादिकं कुर्वाणो वार्यमाणोऽपि न निवर्त्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा निवारणीयः, आदिग्रहणात् प्रत्यनीकादयो वा खर-परुषादिभाषणैरुपशमयितव्याः । तथा 6 'तदुभयच्छेदः' इति कस्याप्याचार्यस्यापूर्वं सूत्रमथों वा विद्यते तस्योभयस्यापि तत्पादिनधी यमानस्य व्यवच्छेदो भवति अतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तत् तदुभयमध्येतव्यमिति यथाक्रमं गति-स्थान-भाषा-भावचपलेषु चतुर्बपि द्वितीयपदमवसातव्यम् । एतद्गाथोक्तकारणाद् ये गतिचपलादयस्तद्विपरीता ये गति-स्थान-भाषा-भावैश्चतुर्भिरप्यचपलास्तेऽस्य कल्पा ध्ययनस्यानुयोगमहन्तीति ।। ७५६ ॥ 10 गतमचञ्चलद्वारम् । अथावस्थितद्वारम् । तत्रानवस्थितं तावदाहअवस्थित दुविहो लिंग विहारे, एकेको चेव होइ दुविहो उ । द्वारम् चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा ॥ ७५७ ॥ अनवस्थितो द्विविधः, तद्यथा-लिङ्गानवस्थितो विहारानवस्थितश्च । एकैकः पुनरपि द्विविधो भवति । तद् उभयमपि द्वैविध्यमनन्तरगाथायां वक्ष्यते । या चत्वारश्च मासाः 18 'अनुद्धाताः' गुरवः, उपलक्षणत्वाद् लघुमासादिकं चात्र प्रायश्चित्तं भवति । तच्च यथास्थानमेव भावयिष्यते । तत्रापि लिङ्गानवस्थित-विहारानवस्थितयोरुभयोरप्याज्ञादयो दोषा द्रष्टव्याः ॥ ७५७ ॥ अथैनामेव गाथां व्याख्यानयतिलिङ्गान गिहिलिंग अन्नलिंगं, जो उ करेई स लिंगओ दुविहो । वस्थितचरणान चरणे गणे अ अथिरो, विहारअणवडिओ एस ॥ ७५८ ॥ वस्थिती 20 'गृहिलिङ्गं गृहस्थानां वेषम् 'अन्यलिङ्गम्' अन्यतीथिकानां नेपथ्यं यः' साधुः, तुशब्दो विशेषणे, किं विशिनष्टि ? दर्पण यो लिङ्गद्वयं करोति स एष लिङ्गतो द्विविधोऽनवस्थितः । अस्य च द्विविधस्यापि मूलम् । तथा चोलपट्टकं बनतः १ एकत उभयतो वा स्कन्धोपरि कल्पाञ्चलानामारोपणरूपं गरुडपाक्षिकं प्रावृण्वतः २ उत्तरासङ्गरूपम सन्यासं कुर्वतः ३ प्रत्येकं चत्वारो गुरुमासाः । द्वावपि बाहू छादयित्वा संयतीप्रावरणमातन्वानस्य चत्वारो 25 लघवः । कल्पेन शिरःस्थगनरूपां शीर्पद्वारिकां कुर्वतो मासलघु । चतुप्फलं मुत्कलं वा कल्पं स्कन्धोपरि कृत्वा गोपुच्छवदघोलम्बमानं कुर्वतो मासलघु । एतेऽपि लिङ्गानवस्थितेऽन्तर्भवन्ति । तथा 'चरणे' चारित्रे 'अस्थिरः' यः पुनः पुनश्चारित्रात् प्रतिपतति तस्य यदि सूत्रं ददाति १स एतचिह्नान्तर्गतः पाठः भा० त० ॥ २ नादित्युक्ते ते भा० ॥ ३ तच्चोभयमपि तत्पाादनधीयमानं व्यवच्छिद्यत इति कृत्वा पूर्वारब्धं भा० ॥ ४ ततस्तदुभ° डे० ॥ ५°कारणकलापमन्तरेण ये गति मो० ले० विना ॥ ६ एकेको होइ दुविह दुविहो उ ता०॥ ७°था-लिङ्गे विहारे च, लिङ्गेनानवस्थितो विहारा(रेणा)नवस्थितश्चेत्यर्थः। एकै भा०॥ ८°त्वाद् 'उद्घातिकाश्च' लघुमासाश्च प्रायश्चित्तमत्र मन्तव्यम् । तच्च भा० ॥९°तत्तु यथा' दे० ॥ १० अथानन्तरोद्दिष्टं द्वैविध्यं दर्शयति भा० ॥ ११ °न्ति । “चरणे अ" इत्यादि। 'चरणे' भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296