Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
गति-स्था
नचच्चलो
भाषाचपलः
२३४
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकार साधुः प्रतिनोदनां दद्यात्-'किमेवं त्वरितं गच्छसि ? न कल्पते साधूनामेवं गन्तुम्' इत्याद्युक्ते प्रकोपनतया असङ्खडकरणेऽस्थिभङ्गादयो दोषाः । » एवं स्थानचञ्चलादिष्वप्युपयुज्य आत्म-संयमविराधने वक्तव्ये ॥ ७५१ ॥ अथ गति-स्थानचञ्चलौ तावदाह
दावद्दविओ गइचंचलो उ ठाणचवलो इमो तिविहो ।
कुड्डादऽसई फुसइ व, भमइ व पाए व विच्छुभइ ॥ ७५२ ॥ इंह द्रवशब्दो द्रुतार्थवाचकः, ततः 'द्रावद्रविकः' नाम द्रुतद्रुतगामी स गतिचञ्चलो भण्यते । स्थानचञ्चलः पुनरयं त्रिविधः, तद्यथा-यो निषण्णः सन् पृष्ठ-बाहु-कर-चरणादिभिः कुड्यम् आदिशब्दात् स्तम्भादिकम् 'असकृद्' अनेकशः स्पृशति १, वाशब्द उत्तरापेक्षया विकल्पार्थः, यो वा निषण्ण एवेतस्ततो भ्राम्यति २, पादौ वा 'विक्षिपति' पुनः पुनः 10 सङ्कोचयति प्रसारयति चेत्यर्थः ३ ।। ७५२ ॥ भाषाचपलमाह
भासाचपलो चउहा, अस त्ति अलियं असोहणं वा वि ।
असभाजोग्गमसम्भ, अणूहिउं तं तु असमिक्खं ॥ ७५३ ॥ भाषाचपलश्चतुर्धा-असत्प्रलापी असभ्यप्रलापी असमीक्षितप्रलापी अदेशकालप्रलापी च । तत्रासत् प्रलपितुं शीलमस्येत्यसत्प्रलापी। अथासदिति कोऽर्थः ? इत्याह-असदिति 15 शब्देनालीकमशोभनं वाऽभिधीयते । तत्रालीकं साधुमसाधुं ब्रवीति, असाधु साधुमित्यादि ।
अशोभनं-गर्वादिदूषितं वचनम् । तथा असभायोग्यमसभ्यमभिधीयते, इह सभा-एकत्रोपविष्टशिष्टपुरुषसमुदायः, तथा चोक्तम्
धम्म-ऽत्थसत्थकुसला, सभासया जत्थ सा सभा नाम ।
जा पुण अविहिपलुट्टा, बुहेहि सा भन्नए मेली ॥ 20 तस्याः सभाया योग्यं यद् वचनं तत् सभ्यम् , तद्विपरीतमसभ्यम् , तच्च 'दास ! चण्डाल !' इत्यादिकं जकार-मकारादिवाक्यरूपं वा, तत् प्रलपितुं शीलमस्येत्यसभ्यप्रलापी । 'अनूहित्वा' अविचार्य 'किमिदं पूर्वापरविरुद्धम् ? किं वा इह-परलोकबाधकम् ?' इत्यादि अविमृश्य यद् वदति तत्तु वचनमसमीक्षितमुच्यते, तत्प्रलपनशीलोऽसमीक्षितप्रलापी ॥ ७५३ ।। अथादेशकालपलापिनमाह
कजविवत्तिं दटुं, भणाइ पुन्धि मए 3 विण्णायं ।
एवमिदं तु भविस्सइ, अदेसकालप्पलावी उ ॥ ७५४ ॥ १"दावद्दविओ" त्ति अगु[ण]करणशब्दोऽयम् , यो द्रुतं द्रुतं गमनशीलः स गतिचञ्चलो भण्यते । तुशब्दो भिचक्रमः, स चाग्रे योक्ष्यते । स्थानचश्चलः भा०॥ २°धः त्रिप्रकारः, तद्य कां० ॥ ३ एव हस्तादिकं समन्तात् “भमई"त्ति अन्तर्भूतण्यर्थत्वाद् भ्रामयति, यो वा उपविष्ट एव पादौ वा विक्षि भा० ॥ ४ 'त्यर्थः । एष त्रिविधोऽपि स्थानचञ्चलोऽभिधीयते ॥ ७५२ ॥ भा० ॥ ५यते। तत्र सभा भा० ॥ ६ तत्र ग्राम्यवचनं 'दासस्त्व चण्डालस्त्वम्' इत्यादि, तत् प्रल° भा० ॥ ७°रादि वा तत् मो० ले० । रादिकं वा तत् कां० ॥ ८ हु ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296