________________
उत्सार
भाष्यगाथाः ७३०-३६] पीठिका।
२२७ दृष्टिवादग्रहणं वक्ष्यमाणकारणैरनयोरेवोत्सारणीयत्वादित्येवमर्थम् । “पुरिस-कारणविहिनू" इति पुरुष-कारणविधिज्ञो नाम 'किमयं पुरुष उत्सारकल्पमर्हति ? न वा ? येन च कारणेनो. सार्यते तदस्ति ? न वा ?' इत्येवंविधविधिवेदी तथा 'संविग्नः' मोक्षाभिलाषी 'अपरितान्तः' सूत्रार्थग्राहणायामहोरात्रमप्यपरिश्रान्त एवंविध उत्सारणं कर्तुमर्हति, एवंगुणोपेत एवोत्सारकल्पं करोतीत्यर्थः ॥ ७३२ ।। अथ यस्योत्सारकल्पः क्रियते तस्यै गुणानाहअभिगए पडिबद्धे, संविग्गे असलद्धिए ।
कल्पाई. अवढिए अ मेहावी, पडिबुज्झी जोअकारए ॥७३३ ॥
स्य गुणाः अभिगतः प्रतिबद्धः संविग्नश्च सलब्धिकः अवस्थितश्च मेधावी प्रतिबोधी योगकारकः, ईदृग्गुणोपेत उत्सारकल्पयोग्य इति नियुक्तिश्लोकसमासार्थः ।।७३३।। अथैनमेव विवृणोति
___ सम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा। 10
सज्झाए पडिबद्धो, गुरुसु नीएल्लएसुं वा ॥ ७३४ ॥ सम्यक्त्वे य आभिमुख्येनं गतः-प्रविष्टः सोऽभिगत उच्यते, यो वा जीवादिपदार्थानां 'विज्ञायकः' विशेषेण ज्ञाता सोऽभिगतः, यद्वा यः 'अभ्युपगतः' 'यावज्जीवं मया गुरुपादमूलं न मोक्तव्यम्' इति कृताभ्युपगमः सोऽभिर्गतः । यः पुनः 'खाध्याये' परावर्तना-ऽनुप्रेक्षादौ सततमायुक्तः, गुरुषु वा स्थिरममत्वानुबन्धः, 'निजकेषु' भ्रातृ-मातृव्या दिषु वा 15 सम्बन्धिषु प्रव्रज्याप्रतिपन्नेषु सञ्जातप्रेमस्थेमा, एष त्रिविधोऽपि प्रतिबद्ध उच्यते ॥ ७३४ ॥
संविग्गो दव्य मिओ, भावे मूलुत्तरेसु उ जयंतो।
लद्धी आहाराइसु, अणुओगे धम्मकहणे य ॥ ७३५ ॥ संविमो द्विधा-द्रव्यतो भावतश्च । 'द्रव्ये' द्रव्यसंविमो मृगः, सदैव सर्वतोऽपि चकितत्वात् । 'भावे' भावसंविग्नः 'मूलोत्तरेषु तु' मूलगुणोत्तरगुणेषु पुनः 'यतमानः' उद्यमं 20 विदधानः साधुर्मन्तव्यः, सदैव संसारापायचकितत्वात् । तथा लब्धिराहारादिषूत्पादयितव्येषु अनुयोगे दातव्ये धर्मकथने च विधेये यस्य स सलब्धिक इति ॥ ७३५ ॥
लिंग विहारेऽवडिओ, मेरामेहावि गहणओ भइओ।
पडिबुज्झइ जं कत्थइ, कुणइ अ जोगं तदद्वस्स ॥ ७३६ ॥ अवस्थितो द्विधा-लिङ्गे विहारे च । लिलावस्थितः खलिङ्गं न परित्यजति, विहाराव-25 स्थितः संविमविहारं विहाय न पार्श्वस्यादिविहारमाद्रियते । मेधावी द्विधा-ग्रहणमेधावी मर्यादामेधावी च । उभावपि वक्ष्यमाणखरूपौ । तत्र मर्यादामेधाविन उत्सारकल्पः क्रियते ।
१°स्य कियस्तो गुणा मृग्यन्ते ? इति, अत्रोच्यते भा० ॥ २ °रक इति सङ्गहगाथासमासार्थः ॥ ७३३ ॥ अथैनामेव विवरीषुराह भा० ॥ ३°न-आत्यन्तिकस्थैर्यलक्षणेन गतः-प्रविष्टः, तादात्म्येन परिणत इति यावत् सोऽभि भा० ॥ ४ गतोऽभिधीयते । यः पुनः भा०॥ ५°मानः' यथाशक्ति यतनां कुर्वाणः सदैव संसारापायचकितत्वात् ; न खल मलोत्तणणविकलस्तत्त्वतः सांसारिकापायाद बिमेतीति बहं शक्यम तथा लन्धि भा०॥६°हारं परित्यज्य न पा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org