________________
२२६
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वाद् यस्मान्न भवत्यभिधानं किन्तु सत्येवेति छ। अनेन च हेत्वर्थ उपात्तः । यतश्चैवं तस्मात् 'तस्य' अर्थस्य प्रसिद्धिरत्राभिधानप्रसिद्धित एव 'सिद्धा' प्रतिष्ठितेति निगमनार्थः । दृष्टान्तोपनयौ खयमेवाभ्यूह्य वाच्यौ । अत्र प्रयोगः-अस्त्युत्सारकल्पिकः, अभिधानवत्त्वात् , घटादिवत् , यद् यद् अभिधानवत् तत् तद् अस्ति, यथा घट6 पटादि, अभिधानवच्चेदम् , तस्मादस्तीति ॥ ७२९ ॥ इत्थं परेण स्वपक्षे समर्थिते सति प्रतिविधीयते--भो भद्र मुग्धप्रामाणिक ! अनैकान्तिकोऽयं भवता हेतुरुपन्यस्तैः । तथा चाह
जइ सव्वं वि य नाम, सअस्थगं होज तो भवे दोसो ।
जम्हा सअस्थगत्ते, भजियं तम्हा अणेगंतो ॥ ७३०॥ यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं 'दोषः' उत्सारकल्पिकस्यास्तित्वापत्ति10 लक्षणः । यस्मात् पुनः सार्थकत्वे नाम 'भक्तं' विकल्पितम् , स्यात् सार्थकं स्यान्निरर्थकमिति
भावः । तत्र सार्थकं जीवा-ऽजीवादिकम् , निरर्थकं खरविषाणा-ऽऽकाशकुसुम-कूर्मरोमवन्ध्यापुत्रादिकम् । यत एवं तस्मादनेकान्तोऽयम्-यदसद्भूतेऽर्थे न भवत्यभिधानम् । इदमत्र तात्पर्यम्-अभिधानस्य भावा-ऽभावयोरुभयोरपि सद्भावादभिधानवत्त्वलक्षणो हेतुर्यथा उत्सारकल्पिकस्यास्तित्वं साधयति तथा नास्तित्वमपि साधयति, उभयत्रापि साधारणत्वात् ; हा 16 अतः साधारणरूपानैकान्तिकदोषदुष्टोऽयं हेतुरिति ॥ ७३० ॥
इत्थं व्यभिचरितपक्षतया विलक्षीभूतः परः परित्यज्य यदृच्छाजल्पमाचार्यवचनमेव प्रमाणीकुर्वनित्थमाह- भगवन् ! अभ्युपगत मयाऽनन्तरोक्त युक्तितोऽभिधानस्य सार्थकत्वमनर्थकत्व चेति, परमिदमुत्सारकल्पिकाभिधानं किं सार्थकम् ? आहोखिद् निरर्थकम् ? इति विवर्तते संशयाव-गायामस्माकं चेतः, तदिदानीमुद्भियतां निजवाग्वस्त्रयेति उच्यते20 निकारणम्मि नाम, पि निच्छिमो इच्छिमो अ कजम्मि ।
उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु ॥ ७३१ ॥ वत्स ! 'निष्कारणे' कारणाभावे नामापि नेच्छामो वयम् किं पुनरर्थम् ? । 'कार्य' प्रयोजने तु प्राप्ते इच्छाम उत्सारकल्पिकस्य नामाप्यर्थमपि । 'तत्तु' कारणं हे नोदक ! 'शृणु' निशमय ।। ७३१ ॥ तत्र तिष्ठतु तावत् कारणम् , कर्तुरधीनाः सर्वा अपि क्रिया इति ज्ञापनार्थं प्रथमत उत्सॉरकारकमाह
आयार-दिहिवायत्थजाणए पुरिस-कारणविहिन्नू ।
संविग्गमपरितंते, अरिहइ उस्सारणं काउं ।। ७३२ ॥ आचारः-प्रथममङ्गं दृष्टिवादः-चरमं तयोरथ जानातीत्याचार-दृष्टिवार्थिज्ञः । इहाऽऽचार१स्तः । कथम् ? इति चेत् उच्यते भा० ॥ २ वयमुत्सारकल्पिकस्य किं पुन भा० ॥ ३°त्सारकमाह डे. कां. चूर्णौ च ॥ ४°दार्थज्ञायकः । 'पुरुष-कारणविधिज्ञः' पुरुषःपरिणामकादिरूपः कारणं-वस्त्रोत्पादनादिकं तयोर्विधि-विधानं प्रकारं जानातीति पुरुषकारणविधिः , किमयमुत्सारकल्पमर्हति ? न वा? इति केन वा कारणेनोत्सार्यते? न वा? इत्येवं सम्यग जानातीति भावः। तथा 'संविग्नः' भा० ॥
उत्सारकल्पका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org