________________
भाष्यगाथाः ७२६-७२९]
पीठिका |
२२५
1
शिष्येणाऽऽचार्येण चाऽऽराघितां भवेति । “विकोवण" ति योगोद्वहनविधौ गच्छसामाचार्यां च 'विकोपना' व्युत्पादना शिष्यस्य कृता भवति ततश्च खयं सामाचारीवैतथ्यं न करोति, अपरान् कुर्वतो निवारयति । तथा गच्छमध्ये द्वितीयपौरुष्यामनुयोगः प्रवर्तते तदाकर्णनाद् मन्दबुद्धेरपि ‘बोधनं’ जीवा ऽजीवादितत्त्वेषु प्रबुद्धता सम्पद्येते । बुध्यमानस्य च श्रुते निरन्तरमुपयोगो जायते । निरन्तरोपयुक्तस्य च महती निर्जरा, प्रतिसमयमसङ्ख्येयभवोपात्तकर्म-6 परमाणुपटलापगमात् । उक्तञ्च
कम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मी विसेसेणं ॥
( जीत० भा० गा० ४५४ । व्यव० उ० १० भा० गा० १२१ पत्र ५१० ) नित्योपयुक्तस्य च शीघ्रं सूत्रार्थयोर्ग्रहणं भवति । तथा गुरुवासेन - गुरुकुलवासेन सार्द्धं 10. योगः - सम्बन्धो भवति, अन्यथा क्रमेण सूत्रार्थाध्ययनायोगात् । यद्वा पदद्वयमिदं पार्थक्येन व्याख्यायते— गुरूणामन्तिके वासो गुरुवासः स सेवितो भवति, योगाश्च विधिवदाराघिता भवन्ति । आचार्यादीनां शुश्रूषा विनय-वैयावृत्त्यादिनों कृता भवति । यत एते गुणास्ततः क्रमेणैवाध्येतव्यम् ॥ ७२७ ॥ उपसंहरन्नाह -
1
इय दोस- गुणे नाउं उक्कम - कमओ अहिजमाणाणं | उभयविसेस विहिन्नू, को वंचणमग्भुवेजाहि ॥ ७२८ ॥
इतिशब्द एवमर्थे । एवमुत्क्रमतः क्रमतश्चाधीयानानाम् उपलक्षणत्वादध्यापयतां च यथाक्रमं दोषान् गुणाँश्च ज्ञात्वा 'उभयविशेषविधिज्ञः' क्रमा - ऽक्रमाध्ययनगुण-दोषविभागवेदी आचार्यः शिष्यो वा को नामोत्सारकल्पस्य करणेन कारापणेन वा आत्मनो वञ्चनम् 'अभ्युपेयाद्' अङ्गीकुर्यात् ? न कश्चिदित्यर्थः । यतश्चैवमतोऽनुपयोगित्वाद् नास्त्युत्सारकल्पिक इति ॥ ७२८ ।। 20 अत्र पुनरपि परः प्राह
जह नत्थि कओ नामं, असइ हु अत्थे न होइ अभिहाणं । तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा ॥ ७२९ ॥
यदि नास्त्युत्सारकल्पिकः ततः कुतोऽस्य 'नाम' अभिधानमिदमायातम् ? ( नै कुतश्चिदित्यर्थः)। अनेन प्रतिज्ञार्थः सूचितः । कुतः ? इत्याह- 'असति' अविद्यमाने 'अर्थे' 25
१वति । योगो' डे० विना ॥ २ द्यते । अधीयमानस्य च श्रुतार्थे 'उपयोगः' एकाग्रमनोनिवेशनरूपो जायते । ततश्च महती निर्जरा भा० ॥ ३ यते - गुरुभिः सार्धं वासो गुरुवासः स सम्यगुपासितो भवति, योगा' भा० ॥ ४ °दिका कृता भा० ॥ ५ त्क्रमेण क्रमेण वाधी भा० ॥ ६° विभागविधिज्ञः को नाम सकर्णः सन्नात्मनो वञ्चनम् 'अभ्युपेयाद्' अभ्युपगच्छेत् ? अङ्गीकुर्यादित्यर्थः । किमुक्तं भवति ? — इत्थं क्रमाक्रमाभ्याम ध्ययना - ऽध्यापनयोर्गुण-दोषजालमवगम्यापि क इव आचार्यः शिष्यो वा उत्सारकल्पं कृत्वा कारयित्वा वा स्वार्थपरिभ्रंशादिह परत्र चानर्थसार्थोपनिपातादात्मानमेव केवलं वञ्चयति ? इति । यतञ्चैवमतोऽनुपयोगित्वाद् नास्त्युत्सारकल्पिक इति स्थितम् ॥७२८॥ अत्र पुनरपि पर: स्वपक्षं समर्थयन्नाह भा० ॥ ७ कोष्टकान्तर्गतमिदं प्रामादिकं निरुपयोगि च ॥
बृ० २९
For Private & Personal Use Only
Jain Education International
15.
www.jainelibrary.org