SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२४ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः पुनस्तदेव 'गौरव्यकारणं' गर्वनिबन्धनं जायते - अहो ! वयमेव निस्सीमप्रतिष्ठापात्रं जगति वर्त्तामहे यदेवं वाचकपदवीमध्यारोहाम इति । इत्थं परः परित्यक्तो मन्तव्यः । आचार्ये च परिवादो भवति, तथाहि —स बहुश्रुताचार्यपार्श्वादुत्सारकल्पं कारयित्वों गतः कापि नगरादौ, पृष्टश्च कैश्चिन्निष्णातैः किमप्यर्थपदं यावन्न किञ्चिज्जानीते, ततस्ते ब्रुवते - 6 यैरेष मूर्खमण्डलीमध्यलब्धरेख आचार्यपद भाजनमकारि तेऽप्याचार्या एवंविधा एव भविष्य - न्तीत्यात्मा परित्यक्तः । तथा प्रवचनमपि तेनाऽऽचार्येण परित्यक्तम् । कथम् ? इत्याहश्रुतस्योत्सारकल्पवशादन धीयमानस्य व्यवच्छेदः प्राप्नोति श्रुते च व्यवच्छिद्यमाने ज्ञानाभावे च दर्शन -चारित्रयोरप्यभावात् तीर्थस्यापि व्यवच्छेदः प्राप्नोति ॥ ७२५ ॥ यदि नाम तीर्थं व्यवच्छिद्यते ततः को दोषः : इत्याह 10 पवयणवोच्छे वट्टमाणो जिणवयणबाहिरमईओ | बंध कम्मरय-मलं, जर मरणमणंतयं घोरं ॥ ७२६ ॥ प्रवचनं तीर्थं तस्य व्यवच्छेदे हेतुरूपतया वर्त्तमानः, कथम्भूतोऽसौ ? इत्याह – 'जिनवचनबाह्यमतिकः' सर्वज्ञशासनबहिर्मुखशेमुषीकः, न खल्वनीदृशस्य प्रवचनव्यवच्छेदं कर्तुं मतिरुत्सहते, स एवम्भूतो बध्नाति 'कर्मर जो - मलं' रजः शब्देन बद्धावस्थं मलशब्देन निका16 चितावस्थं कर्म परिगृह्यते, रजश्च मलश्चेति रजो-मलम्, कर्मैव रजोमलं कर्मरजो- मलम्, निकाचिता-ऽनिकाचितावस्थं कर्म यथाध्यवसायस्थानमनुबध्नातीत्यर्थः । कथम्भूतम् ? अनन्तानि जरा-मरणानि यस्मात् तद् अनन्तजरा-मरणम्, गाथायां प्राकृतत्वादनन्तशब्दस्य परनिपातः, ‘घोरं’ रौद्रं शारीर-मानसदुःखोपनिपातनिबन्धनत्वादिति । तथा षड्जीवनिकायानप्यगीतार्थतयाऽसौ विराधयतीति जीवनिकाया अपि तेनोत्सारकेण परित्यक्ता अवसातव्याः । यत 20 एते दोषास्ततो नोत्सारणीयम् ॥ ७२६ ॥ अथ क्रमेणैवाधीयमाने सूत्रे के गुणाः ? उच्यतेआणा विकोवणा बुज्झणा य उवओग निजरा गहणं । गुरुवास जोग सुसणा य कमसो अहिजंते ॥ ७२७ ॥ 'क्रमशः' क्रमेणाधीयमानेऽध्याप्यमाने च सूत्रे एते गुणाः । तद्यथा — आज्ञा तीर्थकृतां १ 'रवकारणं भवति - अहो ! निःप्रतिमप्रतिष्ठापात्रं वयमेव जगति भा० ॥ २ अहो ! वयं वाचकपदवी' मो० ले० ॥ ३ वाचकप्रसिद्धिमध्यारोहामः । तथा आचार्ये 'परिवादः ' अवर्णवादः । तथाहि भा० ॥ ४ वा वापि नगरादौ गतः केनाऽपि साधुना पृष्टः किमप्यालापक मर्थपदं वा यावन्न किञ्चिज्जानीते, ततो भवति परिस्फुट एवाचार्याणामवर्ण. वादः, यथा - यैरेव मूर्ख भा० ॥ ५ डे० त० विनाऽन्यत्र - ध्यन्ति । तथा उत्सारकल्पे परम्परया क्रियमाणेऽनधीयमानसूत्रस्य व्यवच्छेदः प्राप्नोति । सूत्रे च व्यवच्छि भा० । यन्ति । तथा प्रवचन कां० मो० ले० ॥ ६ 'तम् ? 'अनन्तजरा-मरणम्' जरा-वयोहानिः मरणं - प्राणपरित्यागः, अनन्तानि भा० ॥ ७ कृतां कृता भवति । 'विकोपना' व्युत्पन्नीभवनं सा च भवति । इयमत्र भावना - स शिष्यः क्रमेणाधीयमानो योगोद्वहनविधौ गच्छसामाचार्या च व्युत्पन्नमतिरुपजायते, ततञ्च आत्मना सामाचारीवैतथ्यं भा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy