________________
भाष्यगाथाः ७२४-२५] पीठिका।
२२३ ७२२ ॥ ७२३ ॥ भाविता सप्रपञ्चं योगविराधना । अथाऽऽत्मा परश्च परित्यक्त इति पदद्वयं भावयति--
अप्पत्ताण उदितेण अप्पओ इह परत्थ वि य चत्तो।
सो वि अ हु तेण चत्तो, जं न पढइ तेण गव्वेणं ॥ ७२४ ॥ 'अपात्राणाम्' अयोग्यानां यद्वा 'अप्राप्तानां' विवक्षितानुयोगभूमिमनुपागतानां श्रुतं । ददता उत्सारकल्पकृता आत्मा इह परत्रापि च त्यक्तः, तत्रेह तद्वाचनादानसमुद्भूतांपयश:प्रवादादिना परत्र तु बोधिदुर्लभत्वादिना । तथा सोऽपि शिष्यः 'हु' निश्चितं तेन' आचार्येण परित्यक्तः, यत् तेन गणि-वाचकत्वादिगणाधिष्ठितः सन् न पठति, पठनाभावे हि कुतो यथावत् चरण-करणप्रतिपालनम् ? « इति भावः । प्रवचनमपि तेन परित्यक्तम् , कथम् ? इति चेद् उच्यते-तस्य वाचकत्वप्रवादं श्रुत्वा केचित् सहृदया वाग्मिनो बहुविधग्रन्थ-10 दृश्वानस्तत्परीक्षां कर्तुकामा यदा कमपि सिद्धान्तार्थ प्रश्नयेयुरिति तदाऽसावप्रबुद्धत्वाद् न किमपि तात्त्विकं निर्वचनमभिधातुमीशः । ततस्ते चिन्तयन्ति-अहो! परिफल्गु प्रवचनममीषाम् , यत्रेदशा अपि वाचकपदमध्यारोप्यन्ते । ततः केचिद् देशविरति केचित् सर्वविरतिं प्रतिपित्सवो यदि विपरिणमन्ते ततः प्रवचनं परित्यक्तमवसातव्यम् ।। ७२४ ॥» किश्चअजस्स हीलणा लज्जणा य गारविअकारणमणजे ।
15 आयरिए परिवाओ, वोच्छेदो सुतस्स तित्थस्स ॥ ७२५ ॥ आर्यः-सुजनः सुमानुषमित्येकोऽर्थः, तस्य यथावदागमार्थावबोधविकलस्य वाचकनाना हीलना भवति-अहो! हीलेयं मम यदहं 'वाचक ! वाचक !' इत्यभिधीये। तथा "लज्जण"त्ति 'वाचकमिश्राः ! कथयत कथमयमालापकः सिद्धान्ते विद्यते ? छाको वाऽस्याऽऽलापकस्यार्थः ?' इति केनापि पृष्टस्य व्याकरणं दातुमशक्नुवतो भृशं लज्जा भवति। ततश्च 20 श्यामवदनः कुजीकृतकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते । हा 'अनार्ये' अनार्यस्य
१°श्च यथा परित्यको भवति तथाऽभिधातुकाम आह भा० ॥२°तापकीर्तिप्रवादेन पर' भा०॥३१ एतचिहान्तर्गतोऽयं चूर्णिप्रन्थानुसारी पाठः भा० त० का प्रतिष्वेव वर्तते । तथा चात्र चूर्णिग्रन्थ:-"अप्पा परोय कधं चत्तो भवति? उच्यते-अप्पत्ताण. गाधा ॥ कंठा। अपात्राणामित्यर्थः । “पवयणं कधं परिवत्तं ? सो भण्णति वायओ ताधे केयि पडुणो पुरिसा एंति-पुच्छामो वायगं सिद्धतं । प्रच्छिते ण किंचि जाणति ताधे ते जाणंति-णूणं सव्वं पवयणं णिस्सारं जत्थेरिसो आयरिओ वायओ। तत्थ केयि देसविरतिं सव्वविरतिं वा पडिवजितुकामा विपरिणमंति । एवं पवयणं परिचत्तं ॥ किंचअजस्स० गाधा ॥” इति ॥ ४ कर्तुमायाताः सन्तो यदा कमपि सिद्धान्तार्थ परिप्रश्नयन्ति तदा भा०॥ ५ भा० विनाऽन्यत्र-व्यम् ॥ ७२४ ॥ अथाऽऽत्म-पर-प्रवचनपरित्यागानेव प्रकारान्तरेणाह किञ्च त० कां० ॥ ६ यः खल्वार्यः-सजनो भवति तस्य यथावत्सिद्धान्ताववोधविकलस्य 'वाचक' इत्याख्ययाऽभिधीयमानस्य हीलना भवति भा० । “यो पार्यो जनो भवत्यसौ हि 'वाचक' इत्यपदिश्यमानो लजते" इति चूर्णिः ॥ ७°चको वाचकः' इ. भा० ॥ ८ कोऽस्या मो० ले० कां ॥९ तया च विच्छायवदनः भा०॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International