Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 267
________________ २२६ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वाद् यस्मान्न भवत्यभिधानं किन्तु सत्येवेति छ। अनेन च हेत्वर्थ उपात्तः । यतश्चैवं तस्मात् 'तस्य' अर्थस्य प्रसिद्धिरत्राभिधानप्रसिद्धित एव 'सिद्धा' प्रतिष्ठितेति निगमनार्थः । दृष्टान्तोपनयौ खयमेवाभ्यूह्य वाच्यौ । अत्र प्रयोगः-अस्त्युत्सारकल्पिकः, अभिधानवत्त्वात् , घटादिवत् , यद् यद् अभिधानवत् तत् तद् अस्ति, यथा घट6 पटादि, अभिधानवच्चेदम् , तस्मादस्तीति ॥ ७२९ ॥ इत्थं परेण स्वपक्षे समर्थिते सति प्रतिविधीयते--भो भद्र मुग्धप्रामाणिक ! अनैकान्तिकोऽयं भवता हेतुरुपन्यस्तैः । तथा चाह जइ सव्वं वि य नाम, सअस्थगं होज तो भवे दोसो । जम्हा सअस्थगत्ते, भजियं तम्हा अणेगंतो ॥ ७३०॥ यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं 'दोषः' उत्सारकल्पिकस्यास्तित्वापत्ति10 लक्षणः । यस्मात् पुनः सार्थकत्वे नाम 'भक्तं' विकल्पितम् , स्यात् सार्थकं स्यान्निरर्थकमिति भावः । तत्र सार्थकं जीवा-ऽजीवादिकम् , निरर्थकं खरविषाणा-ऽऽकाशकुसुम-कूर्मरोमवन्ध्यापुत्रादिकम् । यत एवं तस्मादनेकान्तोऽयम्-यदसद्भूतेऽर्थे न भवत्यभिधानम् । इदमत्र तात्पर्यम्-अभिधानस्य भावा-ऽभावयोरुभयोरपि सद्भावादभिधानवत्त्वलक्षणो हेतुर्यथा उत्सारकल्पिकस्यास्तित्वं साधयति तथा नास्तित्वमपि साधयति, उभयत्रापि साधारणत्वात् ; हा 16 अतः साधारणरूपानैकान्तिकदोषदुष्टोऽयं हेतुरिति ॥ ७३० ॥ इत्थं व्यभिचरितपक्षतया विलक्षीभूतः परः परित्यज्य यदृच्छाजल्पमाचार्यवचनमेव प्रमाणीकुर्वनित्थमाह- भगवन् ! अभ्युपगत मयाऽनन्तरोक्त युक्तितोऽभिधानस्य सार्थकत्वमनर्थकत्व चेति, परमिदमुत्सारकल्पिकाभिधानं किं सार्थकम् ? आहोखिद् निरर्थकम् ? इति विवर्तते संशयाव-गायामस्माकं चेतः, तदिदानीमुद्भियतां निजवाग्वस्त्रयेति उच्यते20 निकारणम्मि नाम, पि निच्छिमो इच्छिमो अ कजम्मि । उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु ॥ ७३१ ॥ वत्स ! 'निष्कारणे' कारणाभावे नामापि नेच्छामो वयम् किं पुनरर्थम् ? । 'कार्य' प्रयोजने तु प्राप्ते इच्छाम उत्सारकल्पिकस्य नामाप्यर्थमपि । 'तत्तु' कारणं हे नोदक ! 'शृणु' निशमय ।। ७३१ ॥ तत्र तिष्ठतु तावत् कारणम् , कर्तुरधीनाः सर्वा अपि क्रिया इति ज्ञापनार्थं प्रथमत उत्सॉरकारकमाह आयार-दिहिवायत्थजाणए पुरिस-कारणविहिन्नू । संविग्गमपरितंते, अरिहइ उस्सारणं काउं ।। ७३२ ॥ आचारः-प्रथममङ्गं दृष्टिवादः-चरमं तयोरथ जानातीत्याचार-दृष्टिवार्थिज्ञः । इहाऽऽचार१स्तः । कथम् ? इति चेत् उच्यते भा० ॥ २ वयमुत्सारकल्पिकस्य किं पुन भा० ॥ ३°त्सारकमाह डे. कां. चूर्णौ च ॥ ४°दार्थज्ञायकः । 'पुरुष-कारणविधिज्ञः' पुरुषःपरिणामकादिरूपः कारणं-वस्त्रोत्पादनादिकं तयोर्विधि-विधानं प्रकारं जानातीति पुरुषकारणविधिः , किमयमुत्सारकल्पमर्हति ? न वा? इति केन वा कारणेनोत्सार्यते? न वा? इत्येवं सम्यग जानातीति भावः। तथा 'संविग्नः' भा० ॥ उत्सारकल्पका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296