Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
२१८
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः लब्धवाचकनामधेयाः सर्वज्ञशासनसरसीरुहविकाशनैकसहस्ररश्मयः प्रावृषेण्यपयोमुच इव सरसदेशनाधाराधोरणीनिपातेन महीमण्डलमेकार्णवधर्मकमादधाना गन्धहस्तिन इव कलभयूथेन सातिशयगुणवता निजशिष्यवर्गेण परिकरिता एकं कञ्चिद् ग्राममुपागमन् । तत्र चाधिगतजीवा-जीवादिविशेषणविशिष्टा बहवः श्रमणोपासकाः परिवसन्ति । ते च गुरूणामागमनमा5 कर्ण्य प्रमोदमेदुरमानसाः खखपरिवारपरिवृताः सर्वेऽप्यागम्य तदीयं पादारविन्दमभिवन्ध योजितकरकुड्मला यथावत् तत्पुरत आसाञ्चक्रिरे । ततः सूरिभिरपि रचिता यथोचिता धर्मदेशना । तदाकर्णनेन सञ्जातः संवेगसुधासिन्धुधौतान्तरमलः सकलोऽपि श्रावकलोको गतः परमपरितोषपरवशः सूरीणां गुणग्रामोपवर्णनं कुर्वन् खं खं स्थानम् । तैश्च वाचकनभोमणिभिस्तत्रायातैः प्रतिहतः खद्योतपोतकल्पानामन्ययूथिकानां प्रभाप्रसरः । ततः न शक्नुवन्ति 10 तेऽन्ययूथिका आचार्याणां व्याख्यानादिभिर्गुणैर्जायमानं निरुपमानं महिमानं द्रष्टुम् इति सम्भूय सर्वेऽपि 'अमुमाचार्य वादे पराजित्य तृणादपि लघु करिष्यामः' इत्येकवाक्यतया चेतसि व्यवस्थाप्य समाजग्मुः सूरीणामन्तिकम् । सूरिभिरपि निष्प्रतिमप्रतिभाप्राग्भारप्रभववादलब्धिसम्पन्नैनिपुणहेतु-दृष्टान्तोपन्यासपुरस्सरं मध्येविद्वजनसभं कृतास्ते निष्पृष्टप्रश्न-व्याकरणाः। ततः समुच्छलितः पारमेश्वरप्रवचनगोचरः कीर्तिकोलाहलः, प्रादुर्भूतः परतीथिकानामपि परमः 16 पराभवः, निमनः प्रमोदपीयूषपयोनिधावस्तोकः श्रमणोपासकलोकः, सम्पादिता सपदि विशेष
तस्तेन महती तीर्थस्य प्रभावना । ततस्ते वाचकाः कियन्तमपि कालमलङ्कृत्य तं ग्रामं प्रबोध्य मिथ्यात्वनिद्राविद्राणचैतन्यं भव्यजन्तुजातमन्यत्र कुत्रापि व्यहार्षुः । तेषु च दिनकरवदन्यत्र प्रतापलक्ष्मीमुद्वहमानेषु परतीर्थिका उलूका इवाऽऽप्तप्रसरतया घोरघूत्कारकल्पं प्रवचनावर्णवाद
कर्तुमारब्धाः । वदन्ति च श्रावकान् प्रति-भोः श्वेताम्बरोपासकाः ! यद्यस्ति भवतां कोऽपि 20 कण्डूलमुखो वादी स प्रयच्छतु साम्प्रतमस्माकं वादमिति । श्रावकैरुक्तम्---अये ! विस्मृतमधुनैव भवतां भवान्तरानुभूतमिव तत् तादृशमद्यश्वीनमपि लाघवम् यदेवमनात्मज्ञा असमअसं प्रलपत ? भवत्वेवम्, तथाप्यायान्तु तावत् केचिद् वाचका वा गणिनो वा, पश्चाद् यद् भणिष्यन्ति भवन्तस्तत् करिष्याम इति ।
अथैकदा कदाचिद् निजपाण्डित्याभिमानेन त्रिभुवनमपि तृणवद् मन्यमानस्तुण्डताण्डवा25 डम्बरेण वाचस्पतिमपि मूकमाकलयन् समागतः कतिपयशिष्यकलित उत्सारकल्पिकवाचकः । ततः प्रमुदिताः श्रावकाः गता अन्ययूथिकानामभ्यणे । निवेदितं तत्पुरतः-युष्माभिस्तदानीमस्माकं समीपे वादः प्रार्थित आसीत् , अस्माभिश्च भणितमभूत्-यदा वाचका अत्राऽऽगमिप्यन्ति तदा सर्वमपि युष्मदभिप्रेतं विधास्याम इति, तदिदानीमागताः सन्ति वाचकाः, कुरुत
तैः सह वादगोष्ठीम् , पूरयत खप्रतिज्ञाम्-इत्यभिधाय गताः श्रावकाः स्वस्थानम् । तैश्चान्य30 यूथिकैः प्राचीनपरीभवप्रभवभयभ्रान्तैरेकः प्रच्छन्नवेषधारी प्रत्युपेक्षकः "किं सहृदयः शास्त्रपरिकर्मितमतिर्वाग्मी वाचकः? किं वा न ?' इति ज्ञापनाय प्रेषितः । स चाऽऽगम्योत्सारकल्पिक.
१°N कन्दलितामन्दानन्दातिरेकाः स्वस्वपरि भा० ॥ २ तृणाय मन्य भा० ॥ ३ रा. भवभय त. मो० ले.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296