Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 263
________________ २२२ सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनुयोगाधिकारः च्छित्तिं करेमो । तत्थ जो सो पढमिल्लुगउस्सारी सो जहा ते सियाला तस्स घंटासियालस्स आकिति घंटासदं च जाणंति, न उण 'को एस ? किं वा एयस्स गलए ? कस्स वा एस सद्दो ?' एवं सो पढमिल्लुगुस्सारी किंचि जाणइ न सवं सव्भावं । जो एयस्स पासे उस्सारकप्पं करेति सो कइ वि आलावए जाणेति न पुण अत्थं । सो सिस्सेणं पुच्छिओ भणति—किं पि केरिसो वि अस्थि एयस्स अत्थो । सेसा कतिवए वि आलावए न कईति, ते सिस्सेहिं पुच्छिज्जता भणंति-न याणामो, अत्थि पुण किं पि एयं तस्स तुब्भे जोगं वहह । एवं ते अप्पाणं च परं च नासिंता विहरति । अह अन्नया गीयत्था आयरिया आगया, तेहिं ते उवालद्धा, गच्छा य अच्छिन्ना, गच्छेसु य पवेसिया सवे । जम्हा एते दोसा तम्हा न उस्सारेयत्वं । केत्तिया ते भविस्संति जे एवं निहोडिहिंति ? ॥ 10 गाथात्रयस्याप्यक्षरगमनिका-इक्षवः क्रियन्ते यत्र तत् 'इक्षुकरणम्' इक्षुवाटस्तस्य रक्षणार्थम् 'उवकः' गर्चा खातिकेत्यर्थः सा खानिता । तत्र च क्रोष्टुः-शृगालस्य पतनम् । ततो गृहपतिना गलके घण्टां बद्धा मुक्तस्य तस्य दर्शनम् । शृगालानां नाशनम् । ततो वृकादीनां पृच्छा । ततः सर्वेऽपि परम्परया नश्यन्ति, यावत् सिंहः समागतः । तेन सिंहेन 'प्रतिजागर्य' निरूप्य 'सः' घण्टाशृगालो हतः । शेषाः 'मृगगणाः' शृगाल-वृकादयः आश्वासिताः ॥ 15 अयं दृष्टान्तः, अथ दान्तिकयोजनामाह-"इय कइवयाई" इत्यादि । 'इति' अमुनैव प्रकारेण प्रथमिल्लुकोत्सारी शिष्यः 'कतिपयानि पदानि' सूत्रालापकरूपाणि किञ्चिन्मात्रसूत्रस्पर्शकनियुक्तिमिश्रितानि जानीते । अस्य च समीपे योऽन्योऽधीते स कतिपयान् सूत्रालापकान् मानीते न पुनरर्थम् । तस्यापि पार्थे यः पठति स सूत्रालापकानपि नाऽऽकर्षति, अन्येन पृष्टः प्रतिभणति-अस्ति किमप्येतदनोपाङ्गादिकं श्रुतम् , तद् यूयमेतस्य योगमुद्हतेति । 10 एते च दुरधीतविद्यत्वात् प्रायः प्रत्यन्तग्राम एवार्घ लभन्ते, यत उक्तम् पाएण खीणदवा, धणियऽपरद्धा कयावराहा य । पच्चंत सेवंती, पुरिसा दुरहीयवेज्जा या ॥ अतः प्रत्यन्तं गत्वा सूत्रार्थयोरुत्सारणं कुर्वन्ति, वदन्ति च-वयं सूत्रार्थयोरव्यवच्छित्ति कुर्म इति । अन्यदा च तत्र प्रत्यन्तग्रामे गीतार्थानामागमनम् । तैरुत्सारकल्पिकानां खरण्टॐ नम्, यथा-आः ! किमेवं सूत्रार्थयोः परिपाटिवाचनां परित्यज्य सकलश्रुतधर्मधूमकेतुकल्पमुत्सारकल्पमाचरन्त आत्मानं च परं च नाशयता इत्यादि । ततश्च गच्छानाच्छिा तेषामपुनःकरणेन प्रतिक्रान्तानां प्रायश्चित्तं दत्तम् । “कित्तिय" ति कियन्त एतादृशा गीतार्था भविष्यन्ति य एवं शिक्षयिष्यन्ति ! । तस्मात् प्रथमत एव नोत्सारणीयम् ॥ ७२१ ॥ १ उण निच्छएण जाणंति 'को एस भा० चूर्णौ च ॥ २ मुक्त इति । घण्टोपलक्षितः शृगालो घण्टागाल इति तस्य नाम जातम् । तं तथाभूतमपूर्वभूतकल्पं दृष्ट्वा शृगालानां नाशनम् । ततो वृकादीनां पृच्छा । ततः सर्वेऽपि पलायनकारणं विज्ञाय नश्यन्ति, यावत् भा०॥ ३ 'खरण्टनम्' उपालम्भनम्, यथा भा० ॥ ४ °द्य तेषां सर्वे. षामपु. भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296