Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 254
________________ भाष्यगाथाः ७०३-६] पीठिका। २१३ बहुश्रुतोऽगीतार्थः ३ बहुश्रुतो गीतार्थश्चेति ४ । तत्र » अबहुश्रुतस्यागीतार्थस्य गणं ददाति चत्वारो गुरवः । अबहुश्रुतस्य गीतार्थस्य ददाति चतुर्गुरवः; अस्य च प्रमादादिना सूत्रं विस्मृतम् अर्थ पुनः स्मरतीत्यबहुश्रुतस्य गीतार्थत्वम् , यद्वा आज्ञा-धारणादिमात्रव्यवहारेणाबहुश्रुतस्यापि गीतार्थत्वमिति । बहुश्रुतस्यागीतार्थस्य ददाति चत्वारो गुरवः, अनेन चाऽऽचारप्रकल्याध्ययनं सूत्रतोऽधीतं न पुनरर्थतः श्रुत्वा सम्यगधिगतमिति बहुश्रुतस्यागीतार्थत्वम् । बहु-b श्रुतस्य गीतार्थस्य ददातीत्यत्र चतुर्थे भने शुद्धः । यो वा अबहुश्रुतो गणं धारयतीत्यत्रापि चतुर्भङ्गी । तत्राबहुश्रुतोऽगीतार्थश्च सन् निसृष्टं गणं धारयति १ अबहुश्रुतो गीतार्थो धारयति २ बहुश्रुतोऽगीतार्थो धारयति ३ त्रिष्वपि चतुर्गुरुकाः । बहुश्रुतो गीतार्थो धारयतीत्यत्र शुद्धः। अत एवाह-'भङ्गत्रिकेऽपि' त्रिष्वप्याद्यभङ्गेषु गणदायक-धारकयोरुभयोरपि 'गुरुकाः' चतुर्गुरवः । 'चरमे' चतुर्थे भने शुद्धत्वाद् दायको धारको वा अनुज्ञातः, न तत्र कश्चिद्दोषः 10 ॥ ७०४ ॥ अत्र परः प्राह--यदेतत् प्रायश्चित्वं भणितं किमेतावता पर्यवसितम् ? किं वा न? इति उच्यते-नेति । तथा चाह नियुक्तिकार: सत्तरत्तं तवो होइ, तओ छेओ पहावई ।। छेएणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं ॥ ७०५ ॥ सप्तरात्रमिति जातावेकचनम्, ततोऽयमर्थः त्रीणि सप्तरात्राणि यावत् चतुर्गुादिकं तपो 15 भवति । त्रिष्वपि सप्तरात्रेषु गतेषु यद्यनुपरतौ 'ततः' सप्तरात्रत्रयानन्तरं 'छेदस्तयोराचार्ययोरभिमुखं प्रकर्षेण धावति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न च्छिद्यते तस्मिन्नाचार्ये छेदेनाच्छिन्नपर्याये एकेनैव दिवसेन मूलम् । ततो 'द्विकम्' अनवस्थाप्य-पाराञ्चिकयुगम् ॥ ७०५ ॥ अथैनं श्लोकं विवरीषुराह एकेकं सत्त दिणे, दाऊण अइच्छियम्मि उ तवम्मि । पंचाइ होइ छेदो, केसिंचि जैहा कडो तत्तो ॥७०६॥ 'एकैकं' तपैश्चतुर्गुरुकादि सप्त सप्त दिनानि दत्त्वा ततस्तपःप्रायश्चित्तेऽतिक्रान्ते पञ्चकादिकश्छेदो भवति । केषाश्चिदाचार्याणामयमादेशः–'यथा' यत एवं स्थानात् तपः 'कृतं' प्रारब्धं तत आरभ्य च्छेदोऽपि दीयते, चतुर्गुरुकादित्यर्थः । इयमत्र भावना-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावद् दिवसे दिवसे चतुर्गुरुकम् ; यद्येतावति गते केनाप्यपरेण गीतार्थेन 25 'आचार्याः! न कल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितुं वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तम्' इति प्रज्ञापितो स्वयं वा यापरतो ततः प्रायश्चित्तमप्युपरतम् ; अथ १°वाह-"भंगतिगम्मि" इत्यादि । गणदायक-धारकयोरुभयोरप्यायेषु त्रिपु भङ्गेषु 'गुरुकाः' भा० ॥ २ 'छेदः' सप्तमप्रायश्चित्तं तयोरभिमुखं प्रकर्येण धावति-प्रसर्पति प्राप्नोतीत्यर्थः । छेदेनाऽपि यस्य भूयिष्ठत्वात् पर्यायो न च्छिद्यते तस्मिन् अकारप्रश्लेषादच्छिन्नपर्याये भा०॥३जहिं कता०॥ ४०पः प्रायश्चित्तं सप्त भा०॥ ५व प्रायश्चि स्थाना भा० ॥६°योरुभयोरप्याचा भा० ॥ ७ आर्याः! मा० मो० ले०॥ ८ ततो नाद्यापि किमपि विनष्टम्, प्रतिपद्यन्तां भवन्तः प्रायश्चित्तम्' इति प्रज्ञापितौ सन्तौ खयं भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296