________________
भाष्यगाथाः ७०३-६] पीठिका।
२१३ बहुश्रुतोऽगीतार्थः ३ बहुश्रुतो गीतार्थश्चेति ४ । तत्र » अबहुश्रुतस्यागीतार्थस्य गणं ददाति चत्वारो गुरवः । अबहुश्रुतस्य गीतार्थस्य ददाति चतुर्गुरवः; अस्य च प्रमादादिना सूत्रं विस्मृतम् अर्थ पुनः स्मरतीत्यबहुश्रुतस्य गीतार्थत्वम् , यद्वा आज्ञा-धारणादिमात्रव्यवहारेणाबहुश्रुतस्यापि गीतार्थत्वमिति । बहुश्रुतस्यागीतार्थस्य ददाति चत्वारो गुरवः, अनेन चाऽऽचारप्रकल्याध्ययनं सूत्रतोऽधीतं न पुनरर्थतः श्रुत्वा सम्यगधिगतमिति बहुश्रुतस्यागीतार्थत्वम् । बहु-b श्रुतस्य गीतार्थस्य ददातीत्यत्र चतुर्थे भने शुद्धः । यो वा अबहुश्रुतो गणं धारयतीत्यत्रापि चतुर्भङ्गी । तत्राबहुश्रुतोऽगीतार्थश्च सन् निसृष्टं गणं धारयति १ अबहुश्रुतो गीतार्थो धारयति २ बहुश्रुतोऽगीतार्थो धारयति ३ त्रिष्वपि चतुर्गुरुकाः । बहुश्रुतो गीतार्थो धारयतीत्यत्र शुद्धः। अत एवाह-'भङ्गत्रिकेऽपि' त्रिष्वप्याद्यभङ्गेषु गणदायक-धारकयोरुभयोरपि 'गुरुकाः' चतुर्गुरवः । 'चरमे' चतुर्थे भने शुद्धत्वाद् दायको धारको वा अनुज्ञातः, न तत्र कश्चिद्दोषः 10 ॥ ७०४ ॥ अत्र परः प्राह--यदेतत् प्रायश्चित्वं भणितं किमेतावता पर्यवसितम् ? किं वा न? इति उच्यते-नेति । तथा चाह नियुक्तिकार:
सत्तरत्तं तवो होइ, तओ छेओ पहावई ।।
छेएणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं ॥ ७०५ ॥ सप्तरात्रमिति जातावेकचनम्, ततोऽयमर्थः त्रीणि सप्तरात्राणि यावत् चतुर्गुादिकं तपो 15 भवति । त्रिष्वपि सप्तरात्रेषु गतेषु यद्यनुपरतौ 'ततः' सप्तरात्रत्रयानन्तरं 'छेदस्तयोराचार्ययोरभिमुखं प्रकर्षेण धावति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न च्छिद्यते तस्मिन्नाचार्ये छेदेनाच्छिन्नपर्याये एकेनैव दिवसेन मूलम् । ततो 'द्विकम्' अनवस्थाप्य-पाराञ्चिकयुगम् ॥ ७०५ ॥ अथैनं श्लोकं विवरीषुराह
एकेकं सत्त दिणे, दाऊण अइच्छियम्मि उ तवम्मि ।
पंचाइ होइ छेदो, केसिंचि जैहा कडो तत्तो ॥७०६॥ 'एकैकं' तपैश्चतुर्गुरुकादि सप्त सप्त दिनानि दत्त्वा ततस्तपःप्रायश्चित्तेऽतिक्रान्ते पञ्चकादिकश्छेदो भवति । केषाश्चिदाचार्याणामयमादेशः–'यथा' यत एवं स्थानात् तपः 'कृतं' प्रारब्धं तत आरभ्य च्छेदोऽपि दीयते, चतुर्गुरुकादित्यर्थः । इयमत्र भावना-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावद् दिवसे दिवसे चतुर्गुरुकम् ; यद्येतावति गते केनाप्यपरेण गीतार्थेन 25 'आचार्याः! न कल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितुं वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तम्' इति प्रज्ञापितो स्वयं वा यापरतो ततः प्रायश्चित्तमप्युपरतम् ; अथ
१°वाह-"भंगतिगम्मि" इत्यादि । गणदायक-धारकयोरुभयोरप्यायेषु त्रिपु भङ्गेषु 'गुरुकाः' भा० ॥ २ 'छेदः' सप्तमप्रायश्चित्तं तयोरभिमुखं प्रकर्येण धावति-प्रसर्पति प्राप्नोतीत्यर्थः । छेदेनाऽपि यस्य भूयिष्ठत्वात् पर्यायो न च्छिद्यते तस्मिन् अकारप्रश्लेषादच्छिन्नपर्याये भा०॥३जहिं कता०॥ ४०पः प्रायश्चित्तं सप्त भा०॥ ५व प्रायश्चि स्थाना भा० ॥६°योरुभयोरप्याचा भा० ॥ ७ आर्याः! मा० मो० ले०॥ ८ ततो नाद्यापि किमपि विनष्टम्, प्रतिपद्यन्तां भवन्तः प्रायश्चित्तम्' इति प्रज्ञापितौ सन्तौ खयं भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org