SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २१४ सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे [ अनुयोगाधिकारः नोपरमेते ततो द्वितीयं सप्तरात्रं दिने दिने षड्लघवः ; यदि द्वितीये सप्तरात्रेऽपि गते न प्रतिनिवृत्तौ तदा तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः । यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत् ततश्छेदः प्रधावैति । तत्रैके आचार्याः पञ्चरात्रिन्दिवादारभ्य च्छेदं प्रस्थापयन्ति, अपरे पुनश्च - तुर्गुरुकादिति । पञ्चरात्रिन्दिवप्रस्थापनायां भूयोऽप्यादेश युगम्, तद्यथा – केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिन्दिवेभ्यः छेदं प्रारभन्ते । तत्र लघुपञ्चरात्रिन्दिवप्रस्थापना प्रथमतो भाव्यते - सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकच्छेदः, पञ्चमं गुरुपञ्चकः, षष्ठं लघुदशरात्रिन्दिवः, सप्तमं गुरुदशरात्रिन्दिवः, अष्टमं लघुपञ्चदशकः, नवमं गुरुपञ्चदशकः, दशमं लघुविंशतिरात्रिन्दिवः, एकादशं गुरुविंशतिरात्रिन्दिवः, द्वादशं लघुपञ्चविंशतिकः, त्रयोदशं गुरुपञ्चविंशतिकः, चतुर्दशं लघुमासिकः, पञ्चदशं गुरुमासिकः, षोडशं 10 चतुर्लघुमासिकः, सप्तदशं चतुर्गुरुमासिकः, अष्टादशं लघुषाण्मासिकः, एकोनविंशं सप्तरात्रं गुरुषाण्मासिकेच्छेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति । गुरुपञ्चक प्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकरछेदः, ततः सप्ताहं लघुद - शकः, एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षड्गुरुकान्ताश्छेदाः सप्ताहं सप्ताहं प्रत्येकं द्रष्टव्या इति; अत्र चाष्टादशभिः सप्तरात्रैः षडूिंशं शतं रात्रिन्दिवानां भवति । यदा तु यतः 15 प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत आरभ्य च्छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्रे प्रथमत एव चतुर्गुरुकच्छेदः, पञ्चमे षड्लघुकः, षष्ठे षड्गुरुकः, एवं षङ्गिः सप्तरात्रैर्द्वाचत्वारिंशद् दिनानि भवन्ति । इत्थं त्रयाणामा देशानामन्यतमेनादेशेन च्छिद्यमानोऽपि भूयस्त्वाद् यदा पर्यायो न च्छिद्यते ततो यद्यपि देशोनपूर्व कोटीप्रमाणः पर्यायोऽवशिष्यते तथापि स सर्वोऽपि युगपदेकदिनेनैव च्छिद्यते इति सर्वच्छेदलक्षणं ततो मूलम्, ततो द्वितीये दिवसे - 20 नवस्थाप्यम्, तृतीये पाराञ्चितम् ॥ ७०६ ॥ अथ सामान्यतस्तपः स्थानानि च्छेदस्थानानि च परस्परं किं तुल्यानि ? किं वा हीना ऽधिकनि ? उच्यते—तुल्यानि । यत आह तुल्ला चेव उ ठाणा, तव - छेयाणं हवंति दोहं पि । पणगाइ पणगवुड्डी, दोह वि छम्मास निट्टवणा ॥ ७०७ ॥ तपश्छेदयोर्द्वयोरपि स्थानानि तुल्यान्येव भवन्ति, न हीनानि नाप्यधिकानीति एवश25 ब्दार्थः । कुतः ? इत्याह-- " पणगा" इत्यादि । यतः 'द्वयोरपि' तपश्छेदयोः पञ्चकं पञ्च रात्रिन्दिवान्यादौ कृत्वा पञ्चकवृद्ध्या वर्द्धमानानां स्थानानां षण्मासेषु 'निष्ठापना' समापनाँ १ 'वति । अत्र च्छेदविषयौ द्वावादेशौ -- एके आचार्या ब्रुवते - पञ्चरात्रिन्दिवादारभ्य च्छेदो दीयते, अपरे तु 'यतः प्रभृति तपः प्रायश्चित्तं प्रक्रान्तं तत आरभ्य च्छेदोऽपि दीयते' इति प्ररूपयन्ति । यथा च च्छेदस्य पञ्चरात्रिन्दिवप्रस्थापना- चतुर्गुरुप्रस्थापनाभ्यां द्वावादेशौ तथा लघु-गुरुप्रस्थापनाभ्यामप्यादेशयुगम् । तद्यथा भा० ॥ २° कश्छेद भा० ॥ ३ तु तपःप्रायश्चित्तानन्तरं भा० ॥ ४ कच्छेदः डे० त० ॥ ५°न प्रकारेण च्छिद्य भा० ॥ ६ 'कानि ? इति उ° भा० ॥ ७ डे० त० विनाऽन्यत्र - ना भवति, लघु' मो० ले० । 'ना कर्त्तव्या । इय मा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy