________________
भाष्यगाथाः ७०७-१०] पीठिका ।
२१५ भवति । इयमत्र भावना-लघुपञ्चकादीनि गुरुषाण्मासिकपर्यन्तानि यान्येव तपःस्थानानि तान्येव च्छेदस्यापीति तुल्यान्येवानयोः स्थानानि । एतेन च लघुपञ्चकादर्वाग् गुरुभ्यः षण्मासेभ्य ऊर्ध्व छेदो न भवतीत्यावेदितं द्रष्टव्यम् ॥ ७०७ ॥ अथ कीदृशस्य गणधरपदाध्यारोपणा विधीयते ? उच्यतेपढिय सुय गुणिय धारिय, करणे उवउत्तो छहिँ वि ठाणेहिँ ।
पदयोग्यः छट्ठाणसंपउत्तो, गणपरियट्टी अणुन्नाओ ॥ ७०८॥ "निशीथाध्ययने 'पठिते' सूत्रतः सम्पूर्णेऽप्यपीते, ततः 'श्रुते' अर्थतः सद्गुरुमुखादाकर्णिते, 'गुणिते' परावत्तना-ऽनुप्रेक्षाभ्यामत्यन्तखभ्यस्तीकृते, 'धारिते' चेतसि सम्यग्व्यवस्थापिते, ततः 'करणे' तदुक्ताया विधि-प्रतिषेधरूपाया आज्ञाया विधाने, 'उपयुक्तः' प्रमादरहितः, केषु ! इत्याह-'षट्सु स्थानेषु पञ्चसु महाव्रतेषु रात्रिभोजनविरमणषष्ठेष्वित्यर्थः, गाथायां प्राकृत-10 त्वात् तृतीयाथें सप्तमी । (ग्रन्थानम्-१०००) । एतैः षभिः स्थानैः पठित-श्रुत-गुणितधारित-यथोक्तकरण-व्रतषट्कोपयोगलक्षणैः सम् इति-समुदितैः प्रकर्षेण युक्तः सम्प्रयुक्तः 'गणपरिवर्ती' गच्छवर्तापकोऽनुज्ञातस्तीर्थकर-गणधरैः ॥ ७०८ ॥ अथवा
सत्तऽ नवग दसगं, परिहरई जो विहारकप्पी सो।
तिविहं तीहिँ विसुद्धं, परिहर नवएण मेएण ॥ ७०९॥ 16 य आचार्यादिः सप्तविधमष्टविधं नवविधं दशविधं प्रायश्चित्तं परिहरति, कथम्भूतं तत् ! इत्याह-'त्रिविधं' दान-तपः-कालप्रायश्चित्तभेदादेकैकमपि त्रिभेदं परिहारविषयेण नवकेन भेदेन परिहरति । तद्यथा-मनसा वचसा कायेन स्वयं परिहरति अन्यैः खपरिवारसाधुभिः परिहारयति अन्यान् परिहरतोऽनुमन्यते । याभिः प्रतिसेवनाभिः प्रतिसेविताभिः सप्तविधा. दिकं प्रायश्चित्तं भवति ताः करणत्रय-योगत्रयविशुद्धं परिहरतीति भावः ॥ ७०९ ॥ १०
अथ कथं सप्तविधं प्रायश्चित्तं भवति ? इति उच्यते-आलोचनाहं प्रतिक्रमणाहं तदु. भयाई विवेकाहं व्युत्सर्गाहें तपोऽहं छेदाहमिति । अथ मूला-ऽनवस्थाप्य-पाराश्चिकानि कान्तर्भवन्ति ? उच्यते
दुविहो अ होइ छेदो, देसच्छेदो अ सबछेदो अ।
मूला-ऽणवट्ठ-चरिमा, सव्वच्छेओ अतो सत्त ॥ ७१० ॥ 25 इह च्छेदो द्विविधो भवति–देशच्छेदश्च सर्वच्छेदश्च । पञ्चकादिकः षण्मासपर्यन्तो देशच्छेदः । मूला-ऽनवस्थाप्य-पाराश्चिकानि पुनर्देशोनपूर्वकोटिप्रमाणस्यापि पर्यायस्य युगपत् छेदकत्वात् सर्वच्छेदः । एष द्विविधोऽपि सामान्यतश्छेदशब्देन गृह्यत इति विवक्षया सप्तविघं प्रायश्चित्तम् ॥ ७१० ॥ अथाष्टविध कथं भवति । इति उच्यते
१'स्यापीति भावः ॥ ७०७ ॥ अथ भा० त• विना ॥ २ अत्र टीकादमिप्रायेण "छमुनि ठाणेसु" इति पाठो ज्ञेयः ॥ ३ आचारप्रकल्पाध्ययने 'पठि भा० ॥ ४°रणे' सूत्रतोऽर्थतो वाऽऽचारप्रकल्पाध्ययनोक्ताया विधि भा० ॥ ५ षु' प्राणातिपातविरमणादिषु पञ्चसु भा० ॥ ६°दनाह डे. त.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org