________________
२१६
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे अनुयोगाधिकारः छिजते वि न पावेज कोइ मूलं अओ भवे अट्ठ।
चिरघाई वा छेओ, मूलं. पुण सजधाई उ ॥ ७११॥ छिद्यमानेऽपि पर्याये कश्चित् चिरप्रव्रजितत्वेन मूलं यदा न प्राप्नुयात् तदा तस्य षण्मासच्छेदादूर्वं यद् मूलं दीयते तत् प्राग्दत्तच्छेदविलक्षणत्वादष्टमं भवतीत्यष्टौ प्रायश्चित्त भेदा भवेयुः। 5 यद्वा छेद-मूलयोस्तात्पर्यार्थोऽयमभिधीयते-चिरघाती छेदः, चिरेण पर्यायस्य च्छेदकत्वात् । सद्योघाति मूलम् , झगित्येव निःशेषपर्यायत्रोटकत्वादित्यष्टविधं प्रायश्चित्तम् ॥ ७११ ॥ अथ नवविध-दशविधे प्रतिपादयति
बूढे पायच्छित्ते, ठविजई जेण तेण नव होति ।
जं वसइ खित्तवाहि, चरिमं तम्हा दस हवंति ॥ ७१२ ॥ 10 येन कारणेन द्वादशवार्षिकादिके परिहारतपःप्रायश्चित्ते व्यूढे सत्यनवस्थाप्यो व्रतेषु स्थाप्यते नान्यथा, तेन मूलादनवस्थाप्यं विलक्षणमिति कृत्वाऽनवस्थाप्यप्रक्षेपाद् नव भेदा भवन्ति । यत् पुनस्तदेव परिहारतपःप्रायश्चित्तं वहमानः सन्नेकाकी सक्रोशयोजनप्रमाणक्षेत्राद बहिर्वसति तदेतावतांशेनानवस्थाप्यात् 'चरमं' पाराञ्चितं विभिन्नमिति तस्माद् दश प्रायश्चि
तभेदा भवन्तीति ॥ ७१२ ॥ उक्तो विहारकल्पिकः । तदुक्तौ च व्याख्याता "सुत्ते अत्थे 16 तदुभय" इत्यादिका प्रतिद्वारगाथा (गा० ४०५)। अथ कल्पिकद्वारमुपसंहरन्नाह
एयं दुवालसविहं, जिणोवइटुं जहोवएसेणं ।। जो जाणिऊण कप्पं, सद्दहणाऽऽयरणयं कुणइ ।। ७१३ ॥ सो भविय सुलभवोही, परित्तसंसारिओ पयणुकम्मो।
अचिरेण उ कालेणं, गच्छइ सिद्धिं धुयकिलेसो ॥ ७१४ ॥ 20 'एनम्' अनन्तरोदितं 'द्वादशविधं' सूत्रा-ऽर्थादिभिारैदशप्रकारं 'कल्पं' साधुसमाचार 'जिनोपदिष्टं सर्वहरुक्तमिति, अनेन खमनीषिकाव्युदासमाह, 'यथोपदेशेन' उपदेशाऽवैपरीत्येन 'ज्ञात्वा' अवबुध्य यः श्रद्धानमाचरणं च करोति । 'श्रद्धानं' नाम य एष कल्पः प्ररूपितः स निशङ्कमेवमेव नान्यथा, जिनोपदिष्टत्वात् ; न खलु जिनोपदेशः कदाचिदपि विसंवादपदवीमासादयति । यत उक्तम्25 रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते छनृतम् ।
यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् । ॥ ___ तथा 'आचरणं' नाम यथावसरं द्वादशविधस्यापि कल्पस्यानुपालनम् । एते श्रद्धाना-ऽऽचरणे यः करोति स सिद्धिं गच्छतीति सण्टङ्कः ॥ ७१३ ॥
कथम्भूतः ? इत्याह-भव्यः' सिद्धिगमनयोग्यः, न खल्वभव्यस्यैवंविधकल्पविषयाणि १°चारं जिनैः-सर्वरुपदिष्टमिति, अनेन भा० ॥ २ °पदेशम्' उप° भा० ॥ ३ °ध्य 'श्रद्धानं' 'य एष कल्पः प्ररूपितः स निशङ्कमेवमेव नान्यथा, जिनोपदिष्टत्वात्' इति लक्षणम्, 'आचरणं च यथावसरं द्वादशविधस्यापि कल्पस्यानुपालनम्, यः करोति स सिद्धिं गच्छतीति सण्टङ्कः ॥ ७१३ ॥ भा० त० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org