SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 10 दोषाश्च भाष्यगाथाः ७११-१७] पीठिका । २१७ सम्यग्ज्ञान-श्रद्धाना-ऽऽचरणानि समुपजायन्ते । भन्योऽपि कदाचिद् दुर्लभबोधिकः स्यादित्याह--सुलभा-सुप्रापा बोधिः-अर्हद्धर्मप्राप्तिर्यस्यासौ सुलभबोधिकः । असावपि दीर्घसंसारी स्यादित्याह-परीत्तः-परिमितः संसारो यस्यासौ परीत्तसंसारिकः । अयमपि गुरुकर्मा भवेदित्याह-प्रकर्षेण तनु-प्रकृति-स्थिति-प्रदेशा-ऽनुभावरल्पीयः कर्म यस्यासौ 'प्रतनुकर्मा' लघुकमेंत्यर्थः । एवंविधोऽसौ 'अचिरेणैव कालेन' जघन्यतस्तेनैव भवग्रहणेनोत्कर्षतः सप्ताष्टभवग्रहणैः 'सिद्धि' मोक्षं गच्छति धुतक्लेशः सन् । क्लिश्यन्ते बाध्यन्ते शारीर-मानसैर्दुःखैः संसारिणः सत्त्वा एभिरिति क्लेशाः-कर्माणि, धुताः-अपनीताः क्लेशा येनासौ 'धुतक्लेशः' क्षीणाष्टकर्मेति भावः ॥ ७१४ ॥ तदेवं व्याख्यातं कल्पिकद्वारम् । अथाऽऽनुषङ्गिकमुत्सारकल्पिकद्वारममिघित्सुः प्रस्तावनामाहउत्सारकल्पिकद्वारम् चोयग पुच्छा उस्सारकप्पिओ नत्थि तस्स किह नाम । उत्सार कल्पकतुः उस्सारे चउगुरुगा, तत्थ वि आणाइणो दोसा ।। ७१५॥ कारयितुश्च कल्पिकद्वारे व्याख्याते सति लब्धावकाशो नोदकः पृच्छां करोति-भगवन्! अमीषां प्रायश्चित्तं कल्पिकानां मध्ये किमित्युत्सारकल्पिको नोपन्यस्तः । सूरिराह-नास्त्युत्सारकल्पिक इति । भूयोऽपि परः प्राह—यद्युत्सारकल्पिको नास्ति ततः कथं तस्य नाम श्रूयते । गुरुराह-1 यद्यप्युत्सारकल्पो नाम्ना व्यवह्रियते तथापि न कल्पते उत्सारयितुम् , यद्युत्सारयति तदा चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा द्रष्टव्याः ॥ ७१५ ॥ तानेवाह आणाऽणवत्थ मिच्छा, विराहणा संजमे य जोगे य । अप्पा परो पवयणं, जीवनिकाया परिच्चत्ता ॥ ७१६ ॥ आज्ञा भगवतां तीर्थकृतामुत्सारकल्पकृता न कृता भवति । तमाचार्यमुत्सारयन्तं दृष्ट्वा 20 अन्येऽप्याचार्या उत्सारयिष्यन्ति, तदीया अन्यदीया वा शिष्या विवक्षितशिष्यस्पर्धानुबन्धादुत्सारापयिष्यन्ति चेत्यनवस्था । मिथ्यात्वं वा प्रतिपन्नाभिनवधर्माणः सत्त्वा व्रजेयुः । विराधना 'संयमे च' संयमविषया 'योगे च' योगविषया भवति । तथा तेनोत्सारकेण 'आत्मा' खजीवः परः' उत्सारकल्पविषयः शिष्यः 'प्रवचन' तीर्थ 'जीवनिकायाः' पृथिव्यादय एतानि परित्यक्तानि भवन्तीति द्वारगाथासमासार्थः ॥ ७१६ ॥ साम्प्रतमेनामेव विवरीपु-25 राज्ञा-ऽनवस्थे क्षुण्णत्वादनादृत्य मिथ्यात्वं दर्शयितुं दृष्टान्तमाह पुट्विं मलिया उस्सारवायए आगए पडिमलिंनि । पडिलेह पुग्गलिंदिय, बहुजण ओभावणा तित्थे ॥ ७१७॥ वाचको तत्र तावत् प्रथमं कथानकमुच्यते--इह पुरा केचिदाचार्याः पूर्वान्तर्गतसूत्रा-ऽर्थधारकतया दाहरणम् १°हणैरिति भावः, 'सिद्धि' भा० ॥२ °न्यस्तः? विस्मृतिपथमवतारितः१ आहोश्चिदपरं किमपि कारणान्तरम् ? । अत्राऽऽचार्यः प्रत्युत्तरयति-वत्स! नास्माभिर्विस्मृतिपथमवतारितः किन्तु नास्त्यसावुत्सारकल्पिक इति हेतोरत्र नोपात्तः। पुनरपि शिष्यः प्रश्नयति-यद्युत्सारकल्पिको नास्ति ततः भा० ॥ ३°चनं प्रतीतं 'जीव भा० ॥ वृ. २८ उत्सार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy