________________
२१२
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रै [अनुयोगाधिकारः गृहिकार्ये क्रय-विक्रयादावनभिमते कृतेऽभिमते वा अकृते स एकाकी विवक्षिते गृहस्थे ममत्वातिरेकतः 'संतप्यते' सन्तापमनुभवति, यथा--आः! शोभनं न समजनि यदेतेनागारिणाऽमुकं वस्तु व्यवहृतं अमुकं न व्यवहृतमित्यादि । तथा "पुच्छइ" त्ति सुख-दुःखलाभा-ऽलाभादिकां वार्ता तस्य पार्थे पृच्छति । "तहिं वसई" ति 'तत्र' तेषां गृहस्थानां मध्य 5 एवासौ वसति । तत्र च वैसतो निरन्तरं यस्तैः सह संस्तवस्तेनात्यन्तिकः स्नेहस्तेषु समुल्लसति, तद्वशात् तदीयापत्यानां यत् क्रीडापनं यच्चाक्षर-गणितादिशिक्षापणं यच्च तदुपरोधतः कुण्टलविण्टलादिकरणं तदेवमादयो दोषा द्रष्टव्याः। तथा भाषां सावद्यामसावगीतार्थतया ब्रूयात् , यथा--हे श्रावक ! गम्यताम् आगम्यताम् उपविश्यतामित्यादि । गृहिसके च वस्तुजाते
केनचित् चौरादिना हृते स्वयं वा नष्टे तस्य स्नेहातिरेकतः 'शोकः' परिदेवनादिरूपः स्यादिति । 10 यत एवंविधदोषोपनिपातस्तत एकाकिविहारविरहेण गच्छवासमध्यासीनेन साधुना यावज्जीवं विहरणीयम् ॥ ७०२ ॥ तस्य च गच्छस्याधिपतिराचार्यों भवति ततः शिष्यः प्रश्नयतिकीदृशस्य गच्छो दीयते ? अयोग्यस्य वा गच्छं प्रयच्छन् अयोग्यो वा गच्छं धारयन् कीदृशं
प्रायश्चित्तं प्राप्नोति ? उच्यतेअयोग्य
अबहुस्सुए अगीयत्थे निसिरए वा वि धारए व गणं । स्य गच्छं दातुः धार.
तद्देवसियं तस्सा, मासा चत्तारि भाँरिया ॥ ७०३ ॥
अबहुश्रुतो नाम येनाऽऽचारप्रकल्पाध्ययनं नाधीतं अधीतं वा परं विस्मारितम् , अगीतार्थः प्रायश्चि
येन च्छेदश्रुतार्थो न गृहीतो गृहीतो वा परं विस्मारितः, तस्मिन् अबहुश्रुतेऽगीतार्थे यः 'गणं' गच्छं 'निसृजति' निक्षिपति तस्य चत्वारो भारिका मासाः । यो वा अबहुश्रुतो अगीतार्थो
वा गणं निसृष्टं धारयति तस्यापि चत्वारो मासा गुरुकीः । एतच्च 'तदैवसिकं' तद्दिवसनि20 पन्नं प्रायश्चित्तम् , द्वितीयादिषु तु दिवसेषु यत् प्रायश्चित्तमापद्यते तदुपरिष्टाद् वक्ष्यते ॥ ७०३ ॥ अथैनामेव नियुक्तिगाथां भावयति
अबहुस्सुअस्स देइ ब, जो वा अबहुस्सुओ गणं धरए ।
भंगतिगम्मि वि गुरुगा, चरिमे भंगे अणुनाओ ॥ ७०४ ॥ १ इह चत्वारो भङ्गाः, तद्यथा--अबहुश्रुतो नामैकोऽगीतार्थश्च १ अबहुश्रुतो गीतार्थः २ १ गृहिणां कार्य 'गृहिकार्य' ऋयाणकक्रय-विक्रयादिकं तस्मिन्ननभि भा० ॥ २ वसतः संस्तवः-परिचयस्तेन सार्धमालापादिना समुल्लसति, ततः क्रमशस्तस्योपरि नेहःनिरन्तरःप्रेमावन्ध उपजायते, ततोऽपि स्नेहविह्वलस्य तत्प्रार्थनाभङ्गभीरुतया यदाधाक
र्मादिभिर्दोषैरुपहतस्य पिण्डादेर्ग्रहणं यच्च तदुपरोधतःभा० ॥ ३ डे० त० विनाऽन्यत्र-भाषां सावधामगीतार्थ मो० ले० कां० । भाषा सावद्या तां वा असावगीतार्थ भा० ॥ ४ °दि । गृहस्थस्य क्वचिद वस्तुजाते भा० ॥ ५ च्छ वत्तीपयन् भा० ॥ ६ तस्स उ मा ता० ॥ ७ भारियया ता० ॥ ८°काः। कियतो दिवसान् ? इत्याह-तदैवसिकं' तदिवसनिष्पन्नं तावदिदं प्रायश्चित्तम्, तत ऊर्द्ध द्विती भा० ॥ ९ अथैतदेव भावयति बे० त० विना ॥ १० एतचिहान्तर्गतः पाठः त. कां. विना नास्ति ।।
यितुश्च
तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org