________________
भाष्यगाथाः ६९८-७०२]
पीठिका ।
२११
दुपबृंहणं स्थिरीकरणं तीर्थप्रभावनां वा कुर्यात् , शङ्कादयो वा दोषा देशतः सर्वतो वा तस्य भवेयुरिति, एवं दर्शनमसौ परिहरति । तथा “थी” इति एकाकिनः स्त्रियो सम्भाषणादिनाऽऽस्म-परोभयसमुत्था दोषा भवेयुः । “सोहि" त्ति 'शोधिः' प्रायश्चित्तम् , तद् अपराधमापन्नस्य तस्य को नाम ददातु ? । अनुद्यमता च तस्य सारणादीनामभावाद् भवति । । "निप्पग्गया य" ति इह प्रग्रहशब्दो यद्यपि
"तुलासूत्रेऽश्वादिरश्मौ, सुवर्णे हलिपादपे।
___ बन्धने किरणे बन्यां, भुजे च प्रग्रहं विदुः ॥" इति वचनादनेकार्थः तथाप्यत्राश्वादिरश्मिवाचको द्रष्टव्यः, ततो यथा तया रश्म्या वैल्गापरपर्याययोन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुः प्रमादत उत्पथप्रतिपन्नोऽपि सन्मार्गेऽवतार्यते इति प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, » प्रग्रहो नियन्त्रणा 10 गुर्वाज्ञेति यावत् , निर्गतः प्रग्रहादिति निष्प्रग्रहः, तस्य भावो निष्पग्रहता, गुर्वाज्ञाया अभावात् पाणि-पाद-मुखधावनादि निःशकं करोतीत्यर्थः । एवं चरणविषयः परित्याग इति ॥ ७०० ॥ किञ्च
सामनाजोगाणं, बज्झो गिहिसन्नसंथुओ होइ। दंसण-नाण-चरित्ताण मइलणं पावई एको ॥ ७०१॥
15 स एकाकी "सामन्न" ति श्रामण्य-भाविनां विनय-वैयावृत्त्यप्रभृतीनां योगानां 'बाह्यः' अनाभागी भवति । गृहिणाम्-अगारिणां संज्ञा-समाचारस्तस्यां संस्तुतः-परिचयवान् भवति । दर्शन-ज्ञान-चारित्राणां च मालिन्यमेकः सन् प्रामोति, तत्र बौद्धादिभिर्विपरिणामितमतेः 'अहो! अमीषामपि दर्शनं निपुणोपपत्ति-दृष्टान्तसंवर्मितं समीचीनमिव प्रतिभासते' इत्यादिना चित्तविप्लवेनोन्मार्गप्ररूपणया वा दर्शनमालिन्यम्, विशाखिल-वात्स्यायनादिपापश्रु-20 तान्यभ्यस्यतस्तेषु बहुमानबुद्धिं कुर्वतो ज्ञानमालिन्यम् , चारित्रमालिन्यं पुनरेकाकिनः सुप्रतीतमेव ॥ ७०१ ॥ अथ गृहिसंज्ञासंस्तुतः कथं भवति ? इति उच्यते--
कयमकए गिहिकजे, संतप्पइ पुच्छई तहिं वसइ ।
संथव-सिणेहदोसा, भासा हिय नट्ट सोगो अ॥ ७०२ ।। १त् । तदकरणे च सम्यग्दर्शनस्योज्वालना कृता न भवति । शङ्का च देशतः सर्वतो वा तस्य स्यादिति, एवं भा० ॥ २ डे० त० विनाऽन्यत्र-°याः सङ्गं भाषणा मो० ले० कां० । °याः संदर्शन-सम्भाषणादिना भुक्ता-ऽभुक्तसमुत्था भा० ॥ ३ - एतचिहान्तर्गतः पाठः डे० मो० ले० प्रतिषु नास्ति ॥ ४ पूर्वार्धमिदं हैमानेकार्थसङ्ग्रहे त्रिखरकाण्डे १३६७ श्लोकस्योत्तरार्धरूपेण विद्यते ॥ ५ त० विनाऽन्यत्र-वल्गया उन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथेह गुरूणामप्याज्ञावल्पया साधुः प्रमादत उत्पथप्रतिपन्नोऽपि पुनरपि सन्मार्गेऽवतार्यत इति कृत्वा प्रग्रहोऽत्र गुर्वाज्ञाऽभिधीयते । निर्गतः प्रग्रहादिति निष्पग्रहः, तस्य भावो निष्प्र. ग्रहता, गुर्वाशामन्तरेण खेच्छयैव यद् रोचते हस्त-पाद-मुखधावनादिकं तद् निम्शक करोतीत्यर्थः। एवं चरणपरित्याग इति भा•॥ ६°यन-निमित्तशास्त्रादिपाप भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org