________________
भ्यो भ्रंशः 10
२१०
सनियुक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे अनुयोगाधिकारः चानेनैव भावतोऽपचयमन्देन प्रकृतम् , शेषास्तु शिष्यमतिविकाशनार्थं प्ररूपिताः । अथवा 'तलिना' सूक्ष्मा कुशाग्रीया बुद्धिः श्रेष्ठा, ततः सा सूक्ष्मतन्तुव्यूतपटीवद् अन्तःसारवत्वेन अशा उपचितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः । यस्तु परिस्थूरमतिः स बुद्धेः स्थूलसूत्रतया- स्थूलशाटिकाया इव अन्तर्निःसारतालक्षणमपचयमधिकृत्यापचयभावमन्द इति । अतः केचिदाचार्या उभयमप्यपचयमन्दमिच्छन्ति, प्रथमव्याख्यानापेक्षया निर्बुद्धिकं द्वितीयव्याख्यानपक्षे तु परिस्थूखुद्धिकमपचयभावमन्दमत्र प्रस्तावे गृहन्तीति भावः ॥ ६९७ ॥ अथ यदुक्तं नियुक्तिगाथायाम् "होहिइ वोसट्ठतिट्ठाणो"
(गा०६९४) ति तत्र कानि पुनस्तानि त्रीणि स्थानानि यानि तेन परित्यक्तानि ? उच्यतेएकाकिविहारिणां
नाणाई तिहाणा, अहवण चरणऽप्पओ पवयणं च । ज्ञानादि
सुत्त-ऽस्थ-तदुभयाणि व, उग्गम उप्पायणाओ वा ॥ ६९८॥ एकाकी 'ज्ञानादीनि ज्ञान-दर्शन-चारित्राणि त्रीणि स्थानानि वक्ष्यमाणनीत्या परित्यजतीति । “अहवण" ति अखण्डमव्ययमथवार्थे, चरणमात्मा प्रवचनं चेति वा त्रीणि स्थानानि, तत्रागीतार्थतयाऽसौ षट्कायविराधनया चरणम् , अतिप्रचुराहारभक्षणादिना ग्लानत्वाद्याप
चावात्मानम्, अयतनया संज्ञाव्युत्सर्गादिना प्रवचनं च परित्यजति । अथवा सूत्रा-ऽर्थ-तदु16 भयानि त्रीणि स्थानानि, तत्रासावेकाकितया कदाचित् सूत्रं विस्मारयति कदाचिदर्थ कदाचित् तदुभयम् । यद्वा उद्गमो(म उत्पादना वाशब्दादेषणा चेति त्रीणि स्थानानि, तानि च निरङ्कुशत्वादेकाकी परित्यजतीति प्रकटमेव ॥ ६९८ ॥ अथ यथाऽसौ ज्ञान-दर्शन-चारित्राणि परिहरति तथाऽभिघित्सुराह
अप्पुवस्स अगहणं, न य संकिय पुच्छणा न सारणया । 20
गुणयंते अ अदटुं, सीदइ एगस्स उच्छाहो ॥६९९।। अपूर्वस्य श्रुतस्याग्रहणम्, एकाकितया पाठयितुरभावात् । न च शतिते सूत्रेऽथे वा कस्यापि पावें प्रच्छनम् । न वा सूत्रमर्थं वा विकुट्टयतः 'सारणा' शिक्षणा 'मैवं पाठीः' इत्यादिका भवति । तथाऽपरान् साधून 'गुणयतः' परावर्त्तयतोऽदृष्ट्वा 'सीदति' परिहीयते 'एकस्य'
एकाकिनः 'उत्साहः' सूत्रा-ऽर्थपरावर्त्तनायामभियोग इति ॥ ६९९ ॥ 25 उक्तो ज्ञानपरिहारः । सम्प्रति दर्शन-चरणयोः परिहारमाह
चरगाई वुग्गाहण, न य वच्छल्लाइ दंसणे संका ।
थी सोहि अणुञ्जमया, निप्पग्गहया य चरणम्मि ॥ ७०० ॥ चरकादिभिः' कणाद-सौगत-साङ्ख्यप्रभृतिभिः पाषण्डिभिः कुयुक्तियुक्ताभिरुक्तिभियुद्वाहणमगीतार्थतया तस्य भवेत् , न चासावेकाकितया साधर्मिकाणां वात्सल्यम् आदिशब्दा
१°नार्थमुच्चारितसदृशा इति कृत्वा प्ररूपिताः। अथ प्रकारान्तरेण भावत एवोपचया-ऽपचयमन्दद्वयमाह-"तलिना बुद्धी" इत्यादि । 'तलिना' भा० ॥ २ डे० त• विनाऽन्यत्र-यदुक्तं "होहिइ मो० ले० का० । यदुक्तं सङ्ग्रहगाथायाम् “होहिइ भा० ॥ ३°नानि द्रष्टव्यानि । “अह° भा० ॥ ४ तस्यैकाकिनः 'चरकादिभिः' चरक-चीरिका-सौगत भा० ॥ ५°भिः 'व्युदाहणं' विपरिणामनमगीतार्थतया भवेत् भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org