Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 252
________________ भाष्यगाथाः ६९८-७०२] पीठिका । २११ दुपबृंहणं स्थिरीकरणं तीर्थप्रभावनां वा कुर्यात् , शङ्कादयो वा दोषा देशतः सर्वतो वा तस्य भवेयुरिति, एवं दर्शनमसौ परिहरति । तथा “थी” इति एकाकिनः स्त्रियो सम्भाषणादिनाऽऽस्म-परोभयसमुत्था दोषा भवेयुः । “सोहि" त्ति 'शोधिः' प्रायश्चित्तम् , तद् अपराधमापन्नस्य तस्य को नाम ददातु ? । अनुद्यमता च तस्य सारणादीनामभावाद् भवति । । "निप्पग्गया य" ति इह प्रग्रहशब्दो यद्यपि "तुलासूत्रेऽश्वादिरश्मौ, सुवर्णे हलिपादपे। ___ बन्धने किरणे बन्यां, भुजे च प्रग्रहं विदुः ॥" इति वचनादनेकार्थः तथाप्यत्राश्वादिरश्मिवाचको द्रष्टव्यः, ततो यथा तया रश्म्या वैल्गापरपर्याययोन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुः प्रमादत उत्पथप्रतिपन्नोऽपि सन्मार्गेऽवतार्यते इति प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, » प्रग्रहो नियन्त्रणा 10 गुर्वाज्ञेति यावत् , निर्गतः प्रग्रहादिति निष्प्रग्रहः, तस्य भावो निष्पग्रहता, गुर्वाज्ञाया अभावात् पाणि-पाद-मुखधावनादि निःशकं करोतीत्यर्थः । एवं चरणविषयः परित्याग इति ॥ ७०० ॥ किञ्च सामनाजोगाणं, बज्झो गिहिसन्नसंथुओ होइ। दंसण-नाण-चरित्ताण मइलणं पावई एको ॥ ७०१॥ 15 स एकाकी "सामन्न" ति श्रामण्य-भाविनां विनय-वैयावृत्त्यप्रभृतीनां योगानां 'बाह्यः' अनाभागी भवति । गृहिणाम्-अगारिणां संज्ञा-समाचारस्तस्यां संस्तुतः-परिचयवान् भवति । दर्शन-ज्ञान-चारित्राणां च मालिन्यमेकः सन् प्रामोति, तत्र बौद्धादिभिर्विपरिणामितमतेः 'अहो! अमीषामपि दर्शनं निपुणोपपत्ति-दृष्टान्तसंवर्मितं समीचीनमिव प्रतिभासते' इत्यादिना चित्तविप्लवेनोन्मार्गप्ररूपणया वा दर्शनमालिन्यम्, विशाखिल-वात्स्यायनादिपापश्रु-20 तान्यभ्यस्यतस्तेषु बहुमानबुद्धिं कुर्वतो ज्ञानमालिन्यम् , चारित्रमालिन्यं पुनरेकाकिनः सुप्रतीतमेव ॥ ७०१ ॥ अथ गृहिसंज्ञासंस्तुतः कथं भवति ? इति उच्यते-- कयमकए गिहिकजे, संतप्पइ पुच्छई तहिं वसइ । संथव-सिणेहदोसा, भासा हिय नट्ट सोगो अ॥ ७०२ ।। १त् । तदकरणे च सम्यग्दर्शनस्योज्वालना कृता न भवति । शङ्का च देशतः सर्वतो वा तस्य स्यादिति, एवं भा० ॥ २ डे० त० विनाऽन्यत्र-°याः सङ्गं भाषणा मो० ले० कां० । °याः संदर्शन-सम्भाषणादिना भुक्ता-ऽभुक्तसमुत्था भा० ॥ ३ - एतचिहान्तर्गतः पाठः डे० मो० ले० प्रतिषु नास्ति ॥ ४ पूर्वार्धमिदं हैमानेकार्थसङ्ग्रहे त्रिखरकाण्डे १३६७ श्लोकस्योत्तरार्धरूपेण विद्यते ॥ ५ त० विनाऽन्यत्र-वल्गया उन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथेह गुरूणामप्याज्ञावल्पया साधुः प्रमादत उत्पथप्रतिपन्नोऽपि पुनरपि सन्मार्गेऽवतार्यत इति कृत्वा प्रग्रहोऽत्र गुर्वाज्ञाऽभिधीयते । निर्गतः प्रग्रहादिति निष्पग्रहः, तस्य भावो निष्प्र. ग्रहता, गुर्वाशामन्तरेण खेच्छयैव यद् रोचते हस्त-पाद-मुखधावनादिकं तद् निम्शक करोतीत्यर्थः। एवं चरणपरित्याग इति भा•॥ ६°यन-निमित्तशास्त्रादिपाप भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296