Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 250
________________ भाष्यगाथाः ६९३-९७] पीठिका। २०९ मुक्त्वा 'गच्छनिर्गतान्' जिनकल्पिकादीन् गीतार्थस्यापि 'एककस्य' एकाकिविहारं कुर्वतो मासलघु । 'अविगीते' अगीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः । 'च्यवने' पार्श्वस्थादिविहारे यदि मनसाऽपि संकल्पं कुरुते तदा चत्वारो लघुकाः । “भंग?" ति अष्टौ भङ्गा अत्र कर्तव्याः, तद्यथा---एकाकी अजातकल्पिकच्यवनकल्पिकश्च १ एकाकी अजातकल्पिको न च्यवनकल्पिकः २ एकाकी जातकल्पिकश्यवनकल्पिकः ३ एकाकी जातकरुिपको न च्यवनकल्पिकः ४, एवमेकाकिपदेन चत्वारो भगा लब्धाः; अनेकाकिपदेनापि चत्वारो लभ्यन्ते, सर्वसङ्ख्यया अष्टौ भनाः । अत्राष्टमो भङ्गस्त्रिष्वपि पदेषु शुद्धत्वात् प्रायश्चित्तरहितः। शेषेषु तु यथायथमनन्तरोक्तं प्रायश्चित्तम् ।। ६९५ ॥ एतेषु सप्तखपि भङ्गेषुधा वर्तमानस्य दोषमुपदर्शयन्नुपसम्पन्न-मन्दपदे व्याचष्टेएगागित्तमणट्ठा, उवसंपज्जइ चुओ व जो कप्पा । 10 एकाकि विहारिसो खलु सोचो मंदो, मंदो पुण दव्व-भावेणं ॥ ६९६ ॥ णां मन्द__ य एकाकित्वम् 'अनर्थाद' ज्ञानादिप्रयोजनाभावाद 'उपसम्पद्यते' अङ्गीकरोति, यो वा त्वम् 'च्युतः' प्रतिपतितः 'कल्पात्' संविनविहारात् स खलु वराको द्रव्यजीवितेन जीवनपिनमा 'शोच्यः' शोचनीयः संयमजीविताभावात् , मन्दश्चासौ । अथ मन्द इति कोऽर्थः ? इत्याह-मन्दः पुनः 'द्रव्य-भावेन' द्रव्यतो भावतश्च मन्दो भवतीत्यर्थः ॥ ६९६ ॥ 15 एकेको पुण उवचय, अवचय भावे उ अवचए पगयं । तलिना बुद्धी सेट्ठा, उभयमओ केइ इच्छन्ति ॥ ६९७ ॥ द्रव्यमन्दो भावमन्दश्चैकैकः पुनर्द्विधा-उपचयेऽपचये च । तत्रोपचयद्रव्यमन्दो नाम यः परिस्थूरतरशरीरतयाँ गमनादिव्यापारं कर्तुं न शक्नोति । अपचयद्रव्यमन्दस्तु यः कृशशरीरतयों कमपि प्रयास न कर्तुमीष्टे । उपचयभावमन्दः पुनयों बुद्धेरुपचयेन यतस्ततः कार्य कत्तुं 20 नोत्सहते । अपचयभावमन्दस्तु यो निजसहजबुद्धेरभावेनान्यदीयाया बुद्धरनुपजीवनेन हिताऽहितप्रवृत्ति-निवृत्ती न कर्तृमीशः स बुद्धेरपचयेन भावतो मन्दत्वादपचयभावमन्दः । अत्र १°स्यापि पुष्टालम्बनमन्तरेण 'एककस्य' भा० ॥२ °काः, चशब्दाद् यश्चात्म-संयमविराधनादिकमापद्यते तनिष्पन्नमपि प्रायश्चित्तमवसातव्यम् । “भंगट्ट" भा०।"चशब्दाद् यच्चापद्यते। भंगढ" इति चूर्णिकारः॥ ३ °यथं द्विकत्रिकसंयोगनिष्पन्नं पूर्वोक्तं प्राय भा० ॥ ४ °त्वम् "अणट्र"त्ति अर्थ:-प्रयोजनम् , तदभावोऽनर्थः,पुष्टालम्बनं विनाऽपीति भावः, 'उप° भा०॥ ५°वितव्यपगमादिति भावः, मन्द भा० ॥ ६°भावाभ्याम्, द्रव्य भा०॥ ७ 'उपचयेऽपचये च' उपचयद्रव्यमन्दोऽपचयद्रव्यमन्दश्च उपचयभावमन्दोऽपचयभावमन्दश्चेत्यर्थः। तत्रोप भा० ॥ ८ या कमपि व्यापा' भा० ॥ ९ डे. त• विनाऽन्यत्र-या प्रवासं न मो० ले० । 'या स्वल्पमपि प्रयासं न भा० ॥ १० डे० त० विनाऽन्यत्र-हते । अपचयभावमन्दस्तु यो वुद्धरभावेन हिता-ऽहितप्रवृत्ति-निवृत्ती न कर्तुमीशः । अत्र चानेनैव मो० ले० का । हते । यः पुनः सद्बुद्धेरभावेन हिता-ऽहितप्रवृत्ति-निवृत्ती न कर्तुमीशः स बुद्धेरपचयेन भावतो मन्दत्वादपचयभावमन्दोऽभिधीयते । अत्र चानेनैव भा० ॥ Jain Education International 2° For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296