Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 233
________________ १९२ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः राजद्वारिकं तद्वाऽऽसीत् । तत्रैवमुक्ते 'सूत्रार्थज्ञायकेन' गीतार्थेन चतुर्णां नित्यनिवसनीयादीनां परिवर्त्तानां वस्त्रयुगलानां समाहारश्चतुःपरिवर्त्तम्, तत्र यादृशं परिवर्त्तमेकतरं वा वस्त्रं ददाति तादृशेऽस्मिन् व्याप्रियमाणे सति ततो ग्रहणं कर्त्तव्यम् ॥ ६४४ ॥ एतदेव भावयतिनिश्च्चनियंसणियं ति य, अन्नासह पच्छकम्म-वहणाई । अथ वह धिप्प, इयरय फुस धोय-पगयाई ॥ ६४५ ॥ यदि गृहस्थो ब्रूयात् — नित्यनिवसनीयमिदमासीत्, ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्य असति - अभावे पश्चात्कर्म - वहनादयो दोषा भवन्ति । पश्चाद्-विवक्षितवस्त्रग्रहणानन्तरं कर्म - अभिनववस्त्रस्य कारापणं पश्चात्कर्म, वहनं नाम अव्याप्रियमाणं वस्त्रं यद् वहमानकं क्रियते, आदिग्रहणात् क्रीत-कृत- प्रामित्यादयो 10 दोषाः, अतो यद्यपरं नित्यनिवसनीयमस्ति तदपि यदि वहमानं - व्याप्रियमाणं तदा गृह्यते । कुतः ? इत्याह—‘इतरस्मिन्' अवहमाने स्पर्शन-धौत-प्रकृतादयो दोषाः । इयमत्र भावना — यदवहमानं तस्योपभोगार्थमप्कायेनोत्स्पर्शनं कुर्यात्, धावनं वा विदध्यात् तस्य परिभोगप्रारम्भमुद्दिश्य प्रकरणं वा कुर्वीत, आदिग्रहणाद् धूपन - वासनादीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम् ॥ ६४५ ॥ 5 अपरिभुक्तमधिकृत्य किमेतद् भविष्यति ? इति पृष्टः सन्नेवं ब्रूयात् होहि व नियंसणियं, अण्णासह गहण पच्छकम्माई | अत्थि नवे विउ गिण्हइ, तहिँ तुल पवाहणादोसा ॥ ६४६ ॥ वाशब्दः परिभुक्तादपरिभुक्तस्य पक्षान्तरद्योतकः । 'भविष्यति नित्यनिवसनीयमेतत् ' इत्यभिहिते यद्यपरं तादृशं नास्ति ततोऽन्यस्य तादृशस्यासति ग्रहणे त एव पश्चात्कर्मादयो दोषाः । 20 अथास्त्यन्यत् तादृशं ततः कल्पते । तच्च यद्यपि नवमवहमानकं तथापि गृह्णाति, कुतः ? इत्याह — तुल्यास्तत्र प्रवाहनादोषाः । किमुक्तं भवति ? – यदि साधवो गृह्णन्ति न गृह्णन्ति वा तथापि स गृही तयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवाहयिष्यति, ततः साधूनां गृह्णतामपि न कश्चिद् दोष इति ॥ ६४६ ॥ एमेव मणाई, पुच्छामुद्धं तु सव्वओ पेहे । 15 25 मणिमाई दाइंति व, असिट्ठे मासेहुवादाणं || ६४७ || 'एवमेव' यथा नित्यनिवसनीयमभिहितं तथा मज्जनिक-क्षणोत्सविक राजद्वारिकाण्यभिधातव्यानि । यदा पृच्छया शुद्धमिति निर्धारितं तदा 'सर्वतः ' समन्तात् 'प्रेक्षेत' निभालयेत । १ द्वारमर्हतीति राजद्वारिकं भा० ॥ २ त्रार्थज्ञन भा० विना ॥ ३ वर्त्तम् तस्मिन् अन्यस्मिन् तथाविधे तादृशे परिवत्तं व्यामि भा० ॥ ४ कल्पते, अथ नास्ति ततो न कल्पते । कुतः ? इति चेद् अत आह— अन्यस्य भा० । कल्पते, अथ नास्ति ततो न कल्पते । यतो मो० ॥ ५ वहनम् अन्तर्भूतण्यर्थत्वादव्याप्रियमाणस्य वस्त्रस्य वाहनंव्यापारणम्, आदिग्रहणात् भा० ॥ ६ कुर्वते, आदि भा० विना ॥ ७°व्यम्, नावह माने || मो० ॥ ८ गृहस्थस्तयोरन्यतरद् वस्त्रमात्म° भा० ॥ ९ णासु पु ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296