________________
१९२
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
राजद्वारिकं तद्वाऽऽसीत् । तत्रैवमुक्ते 'सूत्रार्थज्ञायकेन' गीतार्थेन चतुर्णां नित्यनिवसनीयादीनां परिवर्त्तानां वस्त्रयुगलानां समाहारश्चतुःपरिवर्त्तम्, तत्र यादृशं परिवर्त्तमेकतरं वा वस्त्रं ददाति तादृशेऽस्मिन् व्याप्रियमाणे सति ततो ग्रहणं कर्त्तव्यम् ॥ ६४४ ॥ एतदेव भावयतिनिश्च्चनियंसणियं ति य, अन्नासह पच्छकम्म-वहणाई ।
अथ वह धिप्प, इयरय फुस धोय-पगयाई ॥ ६४५ ॥ यदि गृहस्थो ब्रूयात् — नित्यनिवसनीयमिदमासीत्, ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्य असति - अभावे पश्चात्कर्म - वहनादयो दोषा भवन्ति । पश्चाद्-विवक्षितवस्त्रग्रहणानन्तरं कर्म - अभिनववस्त्रस्य कारापणं पश्चात्कर्म, वहनं नाम अव्याप्रियमाणं वस्त्रं यद् वहमानकं क्रियते, आदिग्रहणात् क्रीत-कृत- प्रामित्यादयो 10 दोषाः, अतो यद्यपरं नित्यनिवसनीयमस्ति तदपि यदि वहमानं - व्याप्रियमाणं तदा गृह्यते । कुतः ? इत्याह—‘इतरस्मिन्' अवहमाने स्पर्शन-धौत-प्रकृतादयो दोषाः । इयमत्र भावना — यदवहमानं तस्योपभोगार्थमप्कायेनोत्स्पर्शनं कुर्यात्, धावनं वा विदध्यात् तस्य परिभोगप्रारम्भमुद्दिश्य प्रकरणं वा कुर्वीत, आदिग्रहणाद् धूपन - वासनादीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम् ॥ ६४५ ॥
5
अपरिभुक्तमधिकृत्य किमेतद् भविष्यति ? इति पृष्टः सन्नेवं ब्रूयात्
होहि व नियंसणियं, अण्णासह गहण पच्छकम्माई |
अत्थि नवे विउ गिण्हइ, तहिँ तुल पवाहणादोसा ॥ ६४६ ॥ वाशब्दः परिभुक्तादपरिभुक्तस्य पक्षान्तरद्योतकः । 'भविष्यति नित्यनिवसनीयमेतत् ' इत्यभिहिते यद्यपरं तादृशं नास्ति ततोऽन्यस्य तादृशस्यासति ग्रहणे त एव पश्चात्कर्मादयो दोषाः । 20 अथास्त्यन्यत् तादृशं ततः कल्पते । तच्च यद्यपि नवमवहमानकं तथापि गृह्णाति, कुतः ? इत्याह — तुल्यास्तत्र प्रवाहनादोषाः । किमुक्तं भवति ? – यदि साधवो गृह्णन्ति न गृह्णन्ति वा तथापि स गृही तयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवाहयिष्यति, ततः साधूनां गृह्णतामपि न कश्चिद् दोष इति ॥ ६४६ ॥
एमेव मणाई, पुच्छामुद्धं तु सव्वओ पेहे ।
15
25
मणिमाई दाइंति व, असिट्ठे मासेहुवादाणं || ६४७ ||
'एवमेव' यथा नित्यनिवसनीयमभिहितं तथा मज्जनिक-क्षणोत्सविक राजद्वारिकाण्यभिधातव्यानि । यदा पृच्छया शुद्धमिति निर्धारितं तदा 'सर्वतः ' समन्तात् 'प्रेक्षेत' निभालयेत ।
१ द्वारमर्हतीति राजद्वारिकं भा० ॥ २ त्रार्थज्ञन भा० विना ॥ ३ वर्त्तम् तस्मिन् अन्यस्मिन् तथाविधे तादृशे परिवत्तं व्यामि भा० ॥ ४ कल्पते, अथ नास्ति ततो न कल्पते । कुतः ? इति चेद् अत आह— अन्यस्य भा० । कल्पते, अथ नास्ति ततो न कल्पते । यतो मो० ॥ ५ वहनम् अन्तर्भूतण्यर्थत्वादव्याप्रियमाणस्य वस्त्रस्य वाहनंव्यापारणम्, आदिग्रहणात् भा० ॥ ६ कुर्वते, आदि भा० विना ॥ ७°व्यम्, नावह माने || मो० ॥ ८ गृहस्थस्तयोरन्यतरद् वस्त्रमात्म° भा० ॥ ९ णासु पु ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org