________________
भाष्यगाथाः ६४५-५० ] पीठिका। प्रेक्ष्यमाणे च यदि ‘मण्यादिकं' मणि-हिरण्य-सुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः, यथा-निरीक्षध्वं समन्तादपि वस्त्रमिदम् , यदि निरीक्ष्यमाणैस्तैः खयमेव दृष्टं तदा लष्टम् , नो चेत् ततः साधवः "दाइंति"त्ति दर्शयन्ति-इदं यौष्माकीणं किमप्युपनिबद्धमस्ति । आह एवमभिधीयमाने कथमधिकरणदोषो न भवति ? इति उच्यतेअल्पीयानेवायं दोषः, 'अशिष्टे' अकथिते पुनः शैक्षस्यावधावितुकामस्य तद् द्रव्यमुपादानं भवेत् , तद् गृहीत्वोत्प्रव्रजेदित्यर्थः; अगारिणो वा महान्तमुड्डाहं कुर्युः, यथा-वस्त्रेण सार्द्ध स्तेनितमस्मद्रव्यमेभिः श्रमणैः । अत एवं प्रभूततरो दोषो मा भूदिति कथ्यते ॥६४७॥ उपसंहरन्नाह
एवं तु गविढेसु, आयरिया दिति जस्स जं नत्थि ।
सममागेसु कएसु व, जहराइणिया भवे बीओ॥ ६४८॥ 10 'एवम्' उक्तप्रकारेणैव वस्त्रेषु गवेषितेषु यथासम्भवं लब्धेषु च गुरूणां समीपमागम्य यथावदालोच्य च वस्त्राणि विधिवद् दर्शयति, तत आचार्या यस्य साधोर्यद् जघन्यं मध्यममुत्कृष्टं वा वस्त्रं नास्ति तसै तद् ददतीति प्रथमः प्रकारः । पश्चार्थेन द्वितीयमाह-समेषुतुल्येषु भागेषु कृतेषु, साधूनां सङ्ख्यामनुमाय समांशतया वस्त्रेषु विभक्तेष्विति भावः । वाशब्दः प्रकारान्तरद्योतने । 'यथारत्नाधिकं' यो यो रत्नाधिकस्तस्मै तस्मै प्रथमं दीयते इत्ययं 15 भवेद् द्वितीयो दानप्रकार इति ॥ ६४८॥ उक्तो वस्त्रकल्पिकः । सम्प्रति पात्रमिति पात्रकल्पिकद्वारम् , अत्रापि
अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ॥ ६४९॥ निरूपणा इयं गाथा तथैव (गाथा ४७१) द्रष्टव्या । नवरमिह सूत्रमाचारान्तर्गतं पात्रैषणाध्य-20 यनम् , तत्राप्राप्ते यदि पात्रानयनाय प्रेषयति तदा प्रायश्चित्तं चत्वारो गुरुकाः 'द्वाभ्यामपि गुरवः' तपसा कालेन च । अथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थः कथितस्तदा चत्वारो लघुकास्तपसा गुरवः । अथ कथितोऽर्थः परं नाद्यापि सम्यगधिगतः तदाऽपि चत्वारो लघुकाः कालेन गुरवः । अथाधिगतोऽर्थः श्रद्धानविषयीकृतश्च परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः तपसा कालेन च लघुकाः । अतः सूत्रं पाठयित्वा तस्यार्थं कथयित्वा सम्यगधिगते अद्धिते 25 चार्थे पात्राय परीक्ष्य प्रेषणीय इति ॥ ६४९ ॥ तच्च पात्रं चतुर्विधम् , तद्यथा
नामं ठवणा दविए, भावम्मि चउन्विहं भवे पायं ।।
एसो खलु पायस्सा, निक्खेवो चउबिहो होइ ।। ६५०॥ १ गृहीत्वा प्रत्र भा० विना । “सो तं घेत्तुं उप्पव्वएना" चूर्णौ ॥ २ ट्रेस आ ता० ॥ ३ वितिओ ता० ॥ ४°ति पात्रकल्पि° भा० त० विना ॥ ५ गुरुकाः तप° भा० ॥ ६ °द्याप्यधिगतः अधिगतो वा न सम्यक् श्रद्धानविषयीकृतस्तदाऽपि चत्वारो लघुकाः कालेन गुरवः । अथ सम्यक् श्रद्धत्ते परमद्याप्यपरीक्षितस्तदाऽपि चतुर्लघुकाः द्वाभ्यामपि लघवः [तपसा कालेन च। ततः सूत्रं पाठयित्वा भा० ॥
पात्र
वृ०२५ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org