________________
१९४
निर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
नामपात्रं स्थापनापात्रं द्रव्यपात्रं भावपात्रमिति चतुर्विधं पात्रम् । एष खलु पात्रस्य निक्षेपचतुर्विधो भवति ॥ ६५० ॥ तत्र नाम स्थापने सुगमत्वादनादृत्य द्रव्य-भावपात्रे प्रतिपादयतिGod तिविहं एगिंदि - विगल-पंचिदिएहिं निष्पन्नं । भावे आया पत्तं, जो सीलंगाण आहारो ॥। ६५१ ॥
5
द्रव्यविषयं त्रिविधं पात्रम्, तद्यथा - एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिप्पन्नं पञ्चेन्द्रियनिप्पन्नं च । एकेन्द्रियनिष्पन्नमलाबुकादि, विकलेन्द्रियनिष्पन्नं शुक्ति- शङ्खादि, पञ्चेन्द्रियनिप्पन्नं कुतुप-दन्त-शृङ्गपात्रादि । 'भावे' भावविषयं पात्रमात्मा । किं सर्व एव ? न इत्याहयः पूर्वोक्तानाम् (गा० ६०४ ) अष्टादशसहस्रसङ्ख्यानां शीलाङ्गानाम् ' आधार ः ' आश्रयः स आत्मा साधूनां सम्बन्धी भावपात्रमुच्यते, “पात्रं भाजनमाधारः" इति पर्यायवचनत्वात् । अत्र 10 पुनर्भावपात्रोपयोगिना द्रव्यपात्रेणाधिकारः ॥ ६५१ ॥ तदपि त्रिविधम्
लाउय दारुय मट्टिय, तिविहं उक्कोस मज्झिम जहन्नं । एकं पुण तिविहं, अहागडऽप्पं सपरिकम्मं ॥ ६५२ ॥
अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम् – उत्कृष्टं मध्यमं जघन्यं च । उत्कृष्टं प्रतिग्रहः, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा — यथाकृतम15 ल्पपरिकर्म सपरिकर्म च ॥ ६५२ ॥ अत्र वैपरीत्यैकरणे प्रायश्चित्तमाह -
वोच्चत्थे चउलहुआ, आणाइ विराहणा य दुविहा उ ।
छेयण मेणकरणे, जा जहिँ आरोवणा भणिया ।। ६५३ ॥ विपर्यस्तेन ग्रहणे करणे वा चतुर्लघुकाः, उपलक्षणत्वाद् लघुमास - रात्रिन्दिवपञ्चके अपि । इदमुक्तं भवति — उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिक20 र्मोत्कृष्टमेव गृह्णाति चतुर्लघु, सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु; यदा यथाकृतं योगे कृतेऽपि न लभ्यते तदाऽल्पपरिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव सपरिकर्म गृह्णाति चतुर्लघु, इति त्रीणि चतुर्लघुकानि; एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि; जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि । यथा यथाकृतादिविपर्यस्त - ग्रहणे प्रायश्चित्तमुक्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तमवसातव्यम् । 25 तद्यथा—उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णाति मासिकम् जघन्यं टोप्परिकादि गृह्णाति पञ्चकम् ; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम् ; जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासिकम् । तदेवं विपर्यस्तग्रहणे प्रायश्चित्तमुक्तम्, सम्प्रति विपर्यस्त करणेऽभिधीयते -- उत्कृष्टं भक्त्वा मध्यमं करोति मासि - कम्, जघन्यं करोति पञ्चकम् ; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा 30 जघन्यं करोति पञ्चकम्; जघन्ये संयोज्योत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम् ; आज्ञादयश्च दोषाः । विराधना च द्विविधा – संयमे आत्मनि च । तथा चाह— पात्रस्य च्छेदनं भेदनं वा कुर्वत आत्मविराधना परिताप - महादुःखादिका, संयमविराधना तु तद्गता १ "जहणं उल्लंकगादि" चूर्णो ॥ २ °त्ये धारणे भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org