________________
भाष्यगाथाः ६५१-५५] पीठिका। घुणादयो विनाशमलुवते । ततो या 'यस्यां' संयमविराधनायामात्मविराधनायां वा आरोपणा भणिता सा तस्यामभिधातव्या । तत्रात्मविराधनायां सामान्यतश्चतुर्गुरु, संयमविराधनायां "छक्काय चउसु लहुगा" (गा० ४६१) इत्यादिका कायनिष्पन्ना । यत एवं ततो न विधेयं विपर्यस्तकरणम् ॥ ६५३ ॥ अथ कतिभिः प्रतिमाभिः पात्रं गवेषणीयम् ? उच्यते
उदिसिय पेह संगय, उज्झियधम्मे चउत्थए होइ ।
सव्वे जहन्न एको, उस्सग्गाई जयं पुच्छे ॥ ६५४ ॥ उद्दिष्टपात्रं प्रेक्षापात्रं सङ्गतिकपात्रमुज्झितधर्मकं च चतुर्थम् इति चतस्रः पात्रगवेषणायां प्रतिमाः । गच्छवासिनः प्रतिमाचतुष्टयेनापि पात्रं गृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणमुपरितनयोर्द्वयोरेकतरस्यामभिग्रहः । अथ ग्रन्थगौरवभयादतिदिशन्नाह-"सबे जहण्ण एक्को"ति “यद् यस्य नास्ति वस्त्रं इत्यारभ्य (गा० ६१५) सर्वे वा गीतार्था मिश्रा या 10जघन्यत एको गीतार्थः" इतिपर्यन्तं (गा० ६१८) यथा वस्त्रविषये भावितं तथा पात्रेऽपि सर्व. तदवस्थमेव भावनीयम् , नवरं पात्राभिलापः कर्तव्यः । “उस्सग्गाइ" ति कायोत्सर्गादिकं "आवाससोहि अखलंत समग उस्सग्ग०" (गा० ६१९) इत्यादिगाथोक्तं सप्रायश्चित्तं तथैव वक्तव्यम् । “जयं पुच्छे"ति यतमानः पूर्वोक्तां यतनां कुर्वन् पृच्छेत् । किमुक्तं भवति ?श्रावकेषु नावभाषितव्यम् , किं तर्हि ? भावितकुलेषु, तत्रापि पात्रे दर्शिते 'कस्येदम् ? किमा-15 सीत् ? क चाऽऽसीत् ? किं भविष्यति ?' इति पृच्छाचतुष्टयं तथैव कर्तव्यम् । किं बहुना ? य एव वस्त्रस्य विधिः
___ "एवं तु गविद्येसुं, आयरिया दिति जस्स जं नथि।
समभागेसु कएसु व, जहरायणिया भवे बिइओ ॥" (गा० ६४८) इति पर्यन्तः प्रायः स एव पात्रस्यापि द्रष्टव्यः । यस्तु विशेषः स उपरिष्टाद् दर्शयिष्यते १० ॥ ६५४ ॥ सम्प्रति प्रतिमाचतुष्कं बिभावयिपुराह
उद्दिट्ट तिगेगयरं, पेहा पुण दट्ठ एरिसं भणइ ।
दोण्हेगयरं संगइ, वाहयई वारएणं तु ॥ ६५५ ॥ त्रिकस्य-जघन्यादित्रयस्यैकतरं यद् गुरुसमक्ष प्रतिज्ञातं तदेव याच्यमानमुद्दिष्टपात्रमिति प्रथमा । प्रेक्षापात्रं पुनः 'दृष्ट्वा' अवलोक्य यद् 'ईदृशं मम प्रयच्छ' इति भणति तत् प्रेक्षापूर्वकं 25 याच्यमानत्वात् प्रेक्षापात्रमिति द्वितीया । अथ तृतीया--तस्याश्च खरूपमाचाराङ्गे द्वितीयश्रुतस्कन्धे षष्ठाध्ययने प्रथमोद्देशके इत्थमभिहितम् (ग्रन्थानम्-५००)__ अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण पायं जाणेज्जा, तं जहा--संगहयं वा वेजयंतियं वा ( पत्र ३९९-२)। ___ अथ किमिदं सङ्गतिकम् ? किं वा वैजयन्तिकम् ? इत्याह-"दोण्हेगयरमि"त्यादि । 30 इह कस्यचिदगारिणो द्वे पात्रे, स च तयोरेकतरं दिने दिने वारकेण वायति, तत्र यसिन् दिवसे यद् वाह्यते तत् सङ्गतिकमभिधीयते, इतरद् वैजयन्तिकम् । तयोरेकतरं यदभिग्रह विशेषेण गवेष्यते सा तृतीया प्रतिमा ॥ ६५५ ॥ चतुर्थी प्रतिपादयति१ तयोः सङ्गतिक-वैजयन्तिकयोरेकतरं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org