________________
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
दव्वा दव्व हीणाहियं तु अम्रुगं च मे न घेत्तव्यं । दोहि वि भावनिसि, तमुज्झिओभट्टणोभहं ॥ ६५६ ॥
उज्झितं चतुर्धा, द्रव्य-क्षेत्र - काल - भावोज्झित भेदात् । तत्र द्रव्योज्झितं यथा— केनचिदगारिणा प्रतिज्ञातम् ' इयत्प्रमाणाद्धीनाधिकं पात्रममुकं वा कमढक प्रतिग्रहादिकं मया न B ग्रहीतव्यम् ' तदेव केनचिदुपनीतम्, ततः प्रागुक्तयुक्तया द्वाभ्यामपि भावतो निसृष्टं तद् अवभाषितमनवभाषितं वा दीयमानं द्रव्योज्झितम् ॥ ६५६ ॥ क्षेत्रोज्झितमाहअमुचगं न धारे, उवणीयं तं च केणई तस्स ।
जं वुझे भरहाई, सदेस बहुपायदेसे वा ।। ६५७ ।।
अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचिदुपनीतम्, तद् उभाभ्यामपि पूर्वोक्त10 हेतोः परित्यक्तं क्षेत्रोज्झितम् । यद्वा पात्रमुज्झेयुः 'भरतादय:' भरतः - नटः, आदिशब्दात् चारणादिपरिग्रहः, खदेशं गताः सन्तो बहुपात्रदेशे वा तदपि क्षेत्रोज्झितम् ॥ ६५७ ॥ कालोज्झितमाह
15
20
१९६
25
दगदोद्धिगाइ जं पुव्वकाल जुग्गं तदन्नहिं उज्झे ।
होहि व एस्सकाले, अजोग्गयमणागयं उज्झे ॥ ६५८ ॥
दोद्धिगं- तुम्बकम् दकस्य - जलस्य यद् म्रियते तुम्बकं तद् दकतुम्बकम्, आदिशब्दात् तक्रतुम्बकोदि च यत् पूर्वस्मिन् - ग्रीष्मादौ काले योग्यं तद् 'अन्यस्मिन् ' वर्षाकालादावुज्झेत्, भविष्यति वा एष्यति कालेऽयोग्यम् अतोऽनागतमेव यदुज्झेत्, तदेतदुभयथाऽपि कालोज्झितं ज्ञातव्यम् ॥ ६५८ ॥ भावोज्झितमाह -
लडूण अन्नपाए, पोराणे सो उ देइ अन्नस्स ।
सो वि अ निच्छर ताई, भावुज्झिय एवमाईयं ॥ ६५९ ।।
eoध्वा अन्यानि - अभिनवानि पात्राणि पुराणानि स गृही अन्यस्य कस्यचिद् ददाति सोऽपि 'च 'तानि' दीयमानान्यपि यदा नेच्छति तदा एवमादिकं भावोज्झितं द्रष्टव्यम् ॥ ६५९ ॥ उक्ताश्चतस्रोऽपि प्रतिमाः । अथ पात्रस्यैव विशेषविधिं बिभणिपुराह—
ओभासणा य पुच्छा, दिट्ठे रिके मुहे वहते य ।
सट्टे उक्खिते, सुके अपगासे दट्टणं || ६६० ॥
पात्रस्योत्पादनायामवभाषणं कर्त्तव्यम् । तत्र “पुच्छ" ति शिष्यः पृच्छति किं दृष्टं पात्रं प्रशस्यम् ? उतादृष्टम् ; एवं रिक्तमरिक्तं वा कृतमुखमकृतमुखं वा वहमानकमवहमानकं वा संसृष्टमसंसृष्टं वा उत्क्षिप्तं निक्षिप्तं वा शुष्कमा वा प्रकाशमुखमप्रकाशमुखं वा इत्यष्टौ पृच्छाः । आसां निर्वचनं स्वयमेव सूरिरभिधास्यति । तथा "दहूणं" ति 'दृष्ट्वा ' चक्षुषा 30 निरीक्ष्य पात्रं यदि निर्दोषं तदा गृह्णाति ॥ ६६० ॥
[ अनुयोगाधिकारः
१ 'हादिकं पात्रं मया डे० ॥ २ 'कादिकं च यत् डे० । 'कादिपरिग्रहः, ततश्च दकतुम्बकादिकं च यत् भा० ॥ ३ सो ददाति अ° ता० ॥ ४ 'चनं पुरस्तादेवाभिधास्यति, तथा "दडू° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org