SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६३८ - ४४] पीठिका | १९१ सम्बन्धि भवतु । स्तेनस्खरूपमाह - स्तेनः पुनश्चतुर्विधः 'अयं' वक्ष्यमाणलक्षणः || ६४१ ॥ चातुर्विध्यमेवाह सग्गाम परग्गामे, सदेस परदेसे होइ उड्डाहो । मूलं छेओ छम्मासमेव गुरुगा य चत्तारि ॥ ६४२ ॥ यस्मिन् ग्रामे साधवः स्थिताः सन्ति स स्वग्रामस्तस्मिन् यः स्तैन्यं करोति स स्वग्रामस्तेनः 15 तदपेक्षयाऽपरस्मिन् ग्रामे स्तैन्यं कुर्वन् परग्रामस्तेनः । 'खदेशे' विवक्षितसाधुविहारविषयभूते विषये चौर्यं कुर्वाणः स्वदेशस्तेनः । तदपेक्षयाऽपरत्र देशे चौरिकां विदधानः परदेशस्तेनः । एतेषु गृह्णताम् 'उड्डाह : ' प्रवचनलाघवं भवति — अहो ! अमी लुब्धशिरोमणयः तपखिनः, यदेवं स्तेनाहृतानि वस्त्राणि गृह्णाना राजविरुद्धमपि नापेक्षन्त इति । तेषु प्रायश्चित्तमाह“मूलमि”त्यादि । स्वग्रामस्तेने गृह्णतां मूलम्, परग्रामस्तेने छेदः, खदेशस्तेने षण्मासा गुरुकाः, 10 परदेशस्तेने चत्वारो गुरुकाः, यथाक्रमं दूर-दूरतर - दूरतम स्तैन्य दोषत्वादिति भावः ॥ ६४२ ॥ तदेवं व्याख्याता “इत्थी पुरिस" इत्यादिद्वारगाथा (६३७) । तद्व्याख्याने च समर्थितं 'कस्य' इति पृच्छाद्वारम् । अथ 'किमासीत् ?' इति पृच्छाद्वारमाह एवं पुच्छासुद्धे, किं आसि इमं तु जं तु परिभुत्तं । किं होहिं त्ति अहतं, कत्थाऽऽसि अपुच्छणे लहुगा ।। ६४३ ॥ 15 'एवम्' अमुना प्रकारेण कस्येति पृच्छया शुद्धे निर्दोषे निर्णीते सति यत् 'परिभुक्तं ' भुक्तपूर्वं तत् पृच्छयते— 'किमिदं वस्त्रमासीत् ?' युष्माकं कीदृशमुपयोगमागतवदित्यर्थः । यत् पुनः 'अहतम्' अपरिभुक्तं तत् पृच्छयते - किमेतद् भविष्यति ? इति । " कत्थासित क पेडायां मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत् ? । तत्र यदि पेडायां तदा किं पृथिव्यादिषु कायेषु सा पेडा प्रतिष्ठिता ? अप्रतिष्ठिता वा? इत्याद्युपयुज्य वाच्यम् । कस्येदम् ? किमा - 20 सीत् ? कुत्रासीत् ? किं भविष्यति ? इति 'अप्रच्छने' चतसृणामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः || ६४३ ॥ तत्र किमासीद् ? इति पृष्टे ते गृहस्था अभिदध्युः - निच्च नियंसण मञ्जण, छणूसवे रायदारिए चेव । सुत्तत्थजाणएणं, चउपरियट्टे तओ गहणं ।। ६४४ ॥ 'नित्यनिवसनं' नित्योपभोग्यमेतदासीत् । 'मज्जनिकं' नाम स्नानानन्तरं यत् परिधीयते 25 धौतवस्त्रमित्यर्थः तदासीत् । तथा क्षणः - प्रतिनियतः कौमुदी - शक्रमहादिकः, उत्सव : -- पुनरनियतो नामकरण-चूडाकरण - पाणिग्रहणादिकैः; अथवा यत्र पक्वान्नविशेषः क्रियते स क्षणः, यत्र तु पक्वान्नं विनाऽपरो भक्तविशेषः स उत्सवः; क्षणे उत्सवे च परिभुज्यते यत् तत् · क्षणोत्सविकं' तद्वाऽऽसीत् । तथा राजा ऽमात्य महत्तमादिभवनेषु गच्छद्भिर्यत् परिभुज्यते तद् १ पृच्छायां शुद्धे भा० ॥ २ 'नित्यनिवसनमेतदासीत्' नित्यं प्रत्यहं निवसितं यस्य तद्, नित्योपभोग्यमित्यर्थः । 'मज' भा० ॥ ३त् । 'क्षणोत्सविकं वाऽऽसीत्' क्षणः भा० ॥ ४ कः प्रकरणविशेषः, अथ भा० ॥ ५ कम् । यद्वा 'राजद्वारिक मिदमासीत्' राजा' भा० ॥ ६°षु जिगमिषुभिर्यत् भा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy