________________
6
10
१९०
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
स्त्री-पुरुष नपुंसका धात्री खुषा च भवति बोद्धव्या, ततो बालयुगलं वृद्धयुगलं तालाभिचरन्तीति 'तालाचराः ' नटाः, , सेवकः स्तेनश्च प्रतीत इति द्वारगाथासमासार्थः ॥ ६३७ ॥ व्यासार्थं प्रतिद्वारं बिभणिपुराह -
त्रिविधा स्त्री, तद्यथा - स्थविरा मध्यमा कन्या च । तत्र स्थविरां दात्रीं भणन्ति - मा भूत् तव 'जातानां' पुत्राणां सत्कमिदं वस्त्रं तेन वयं कस्य इति पृच्छाम इति योजना सर्वत्र कर्त्तव्या । मध्यमा भण्यते - मा भूत् तव पति - देवरयोः सत्कम् । 'कन्यां' कुमारीं भणन्ति — मा भूत् तव स्थविर - भ्रात्रोः सम्बन्धि | स्थविर:- पिता, भ्राता प्रतीतः ॥ ६३८ ॥ एमेव य पुरिसाण वि, पंडगऽपडिसेवि मा निआणं ते । सामियकुलस्स धाई, सुन्हं जह मज्झिमा इत्थी ।। ६३९ ।।
'एवमेव' यथा स्त्रीणां तथा पुरुषाणामपि स्थविर - मध्यम - तरुण भेदैस्त्रैविध्यं द्रष्टव्यम् । स्थविरः पुरुषो भण्यते--- मा तव पुत्राणां कलत्रस्य वा सत्कं भवेत् । मध्यमोऽभिधीयते— मा भृत् तव भ्रातॄणां पल्या वा सम्बन्धि | तरुण उच्यते- मा तव पितुर्मातुर्भ्रातॄणां वा 15 स्वाधीनं भवेत् । 'पण्डकः' नपुंसकः "पडिसेवि "त्ति अकारप्रश्लेषाद् 'अप्रतिसेवी' तृतीयवेदोदयरहितोऽसक्लिष्ट इत्यर्थः तस्य ग्रहीतुं कल्पते, स चाभिधीयते- - मा ते 'निजानां' सम्बन्धिनामिदं वस्त्रं भवेत् । यः पुनस्तृतीय वेदोदययुक्तस्तस्य हस्ताद् गृह्णतां चत्वारो लघुकाः, आज्ञाभङ्गादय आत्म-परोभयसमुत्थाश्च दोषाः । या धात्री साऽभिधीयते -माते 'खामि कुलस्य' खामिनो गृहस्य सत्कं भवेत् । 'स्नुषां' वधूं भणन्ति यथा मध्यमा स्त्री भणिता - मा 30 ते पत्युर्देवरस्य वा सम्बन्धि भवेत् ॥ ६३९ ॥
दो पि अजयलाणं, जहारिहं पुच्छिऊण जइ पहुणो । गिण्हंति तओ तेसिं, पुच्छासुद्धे अणुन्नायं ।। ६४० ॥
इह द्वे युगले नाम बालयुगलं वृद्धयुगलं च । बालयुगलं बालो बालिका, वृद्धयुगलं वृद्धो वृद्धा च तयोर्द्वयोरपि युगलयोः 'यथार्हं' यथायोग्यं स्वरूपं पृष्ट्वा प्रत्ययिकपुरुषमुखेन च 26 निश्चित्य यदि प्रभवस्ते बालादयस्ततो गृह्णन्ति तेषां हस्तात्, अथ न प्रभवस्तदा यः पितृपुत्रादिः प्रभुस्तस्य वा पृच्छा - किं गृह्यतां न वा ? इति तया शुद्धे-गृह्यतां निर्विकल्पमित्यनुमत्या निःसन्दिग्धे कृते ग्रहणमनुज्ञातम् || ६४० ॥
तूरपइ दिंति मा ते, कुसीलवे तेसु तूरिए मा ते ।
एमेव भोगि सेवग, तेणो उ चउव्विहो इणमो ॥ ६४१ ॥
30
तिविहित्थि तत्थ थे, भणति मा होज तुज्झ जायाणं । मज्झिम मा प-देवर, कण्णं मा थेर-भाईणं ॥ ६३८ ॥
'तूर्यपतिः ' नटमहत्तरस्तस्मिन् ददति भण्यते--मा ते 'कुशीलवानां' नटानां सत्कं भवि प्यति । 'तेषु' कुशीलवेषु ददत्सु मा युष्माकं 'तूर्थिकस्य' तूर्यपतेर्भवेत् । 'एवमेव ' तूर्यपतिकुशीलवोक्तप्रकारेणैव भोगिक - सेवकयोरपि वाच्यम् । यदि सेवको ददाति तदा वक्तव्यम् - मा ते भोगिकस्य - खामिनः स्वाधीनं भवेत् । भोगिके दातरि वाच्यम् — मा युष्माकं सेवकस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org