________________
भाष्यगाथाः ६३०-३७] पीठिका।
१८९ मीति कृत्वा । तस्य पुरतः साधुभिरभिधातव्यम्-भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः किन्तु सार्वज्ञोऽस्माकमयमुपदेशः, यतः-कदाचित् तव खजन-परिजनमित्रादीनां सत्कमिदं भवेत् , ते चापरस्य तथाविधस्याभावेऽप्रीतिकं कुर्युः अभिनवं वा वस्त्रं सम्मूर्च्छयेयुः क्रीणीयुर्वा, अस्माकं च तृतीयत्रतातिचारः स्यात् ; यद्वा श्रमणादिभिः स्तेनपर्यन्तैरिदमस्मदर्थ स्थापितं भवेदित्यादयो दोषाः कस्येत्यपृच्छायां न परिहत्तुं शक्यन्ते । इत्युक्ते यदि स ब्रूयात्-"ममैवैतद् नान्यस्य' इति तदा निर्दोषं मत्वा प्रतिगृह्यते । एवं दुर्भगादिष्वपि पदेषु यथायोगमुपयुज्य भावना कार्या ॥ ६३३ ॥ दुर्भगद्वारमाह
जइ रन्नो भजाए, व दुभगो दूभगा व जइ पइणो ।
किं भगो मि तुम वि, वत्था वि व दभगा किं मे ॥ ६३४ ॥ दुर्भगो ब्रूयात्—यद्यहं राज्ञो भार्याया वा 'दुर्भगः' द्वेष्यस्तत् किं युष्माकमपि दुर्भगः । 10 यदि वा काचिदविरतिका दात्री तदा यात्यद्यहं पत्युर्दुभंगा तत् किं युष्माकमपि दुर्भगा? वस्त्राण्यपि वा किममूनि मे दुर्भगाणि यदेवं दीयमानान्यपि 'कस्य सत्कानि ?' इति पृच्छयन्ते ॥ ६३४ ॥ अथ भ्रष्ट-श्रमणच्छन्नद्वारद्वयमाह
जइ रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छहेयाणि । __ अस्थि महं साभरगा, मा हीरेज त्ति पव्वइओ ॥ ६३५ ॥ 15 रौजपदच्युतः प्राह-~-यद्यहं राज्याद् भ्रष्टः तत् किं चीवरेभ्योऽपि ? नैवेत्यर्थः, 'पश्यत' अवलोकयत एतानि मद्गृहे भूयांसि वासांसीति ब्रुवन् हस्तसंज्ञया दर्शयति । श्रमणच्छन्नः प्राह-सन्ति मम पार्चे बहवः “साभरग"त्ति देशीवचनाद् रूपकाः, ते च माँ राजकुलादिना हियेरन्नित्यहं 'प्रवजितः' शाक्य-तापस-परिव्राजका-ऽऽजीवकाख्यानां श्रमणानामन्यतमः संवृत्त इत्यर्थः ॥ ६३५ ।। अथ स्तेनको यद् ब्रूयात् तदाह
__ अस्थि मे घरे वि वत्था, नाहं वत्थाइँ साहु ! चोरेमि ।
सुट्ट मुणिअंच तुम्भे, किं पुच्छह किं व हं तेणो ॥ ६३६ ॥ सन्ति 'मे' मम गृहे वस्त्राणि अत एव हे साधो ! नाहं वस्त्राणि चोरयामि; यद्वा 'सुष्ठ' शोभनं 'मुणितं' परिज्ञातं युष्माभिर्यथाऽहं स्तेनः, को नाम साधून् मुक्त्वाऽपरो ज्ञास्यति ? तदहं सत्यं स्तेन एव, न पुनः साधूनामर्थाय चोरयामि; अथवा किं यूयं पृच्छत ? यस्य वा 25 तस्य वा भवतु यूयं गृह्णीत; यद्वा किमहं स्तेनो येन यूयं 'कस्य' इति पृच्छथ ? । अत्रापि समाधानविधानं प्राग्वत् ॥ ६३६ ॥ अथ कस्येति पृच्छाप्रतिबद्धामेव द्वारान्तरप्रतिपादिकामिमा गाथामाह
इत्थी पुरिस नपुंसग, धाई सुण्हा य होइ बोधव्वा ।
बाले अ वुड्डयुगले, तालायर सेवए तेणे ॥ ६३७ ॥ १ भा. ले. कां. विनाऽन्यत्र-त्, तथाऽपरस्य तथा त० मो०। त्, यथा यस्य तथा डे. ॥ २°कं तु तृ' डे० ॥ ३ राज्यप डे० ले० विना ॥ ४ मा केनचित् चौरादिना हि भा० ॥ ५°मां नियुक्तिगाथा मो० ॥
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org