________________
१८८
सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः
प्रदातव्यानीति । अच्छिन्नः पुनः प्रतिनियतकालविवक्षारहितः ॥ ६२९ ॥ अत्र विधिमाह - अगं कालमणागऍ, दिजह समणाण कप्पई छिने ।
पुण्ण समकाल कप्पर, ठवियगदोसा अईअम्मि ॥ ६३० ॥
देशान्तरं जिगमिषुः कोऽपि कस्यापि गृहे किञ्चिद् वस्त्रजातं निक्षे कामो ब्रूते — 'अमुकं' 5 विवक्षितं कालं मय्यनागते यूयं मदीयं वस्त्रं श्रमणेभ्यो दद्यात इत्यभिधाय निक्षेपकं निक्षिप्य गतोऽसौ देशान्तरं नाऽऽयातस्तावतः कालावधेरर्वाक् ततः कल्पते तद् वस्त्रम् । एवं विधिच्छिन्ने निक्षेपके किं सर्वदैव ? न इत्याह – पूर्णस्यावधेः समकालं कल्पते न परतः । कुतः ? इत्याह-स्थापनैव स्थापितकं तस्य दोषा अतीते विवक्षितकालावधौ भवन्ति । अच्छिन्ने यदा प्रयच्छन्ति तदा कल्पते ॥ ६३० ॥ अथ साधुनिक्षिप्तवस्त्रविधिमाह - असिवाइकारणेहिं, पुण्णाईए मणुन्ननिक्खेवे ।
10
परिभुंजंति ठविंति व, छडिंति व ते गए नाउं ॥ ६३१ ॥
अशिवं - व्यन्तरकृतोपद्रवविशेषः, आदिग्रहणादवमौदर्यादिपरिग्रहः, तैरशिवादिभिः कारणैः पूर्णेऽतीते वा काले मनोज्ञाः - साम्भोगिकास्तेषां निक्षेपके यद् वस्त्रजातं तत् परिभुञ्जते । इयमत्र भावना - साम्भोगिकसाधुभिरशिवादिभिः कारणैर्देशान्तरं व्रजद्भिनादिप्रतिबन्धस्थि15 तानां साधूनां समीपे यद् वस्त्रजातं निक्षिप्तं तत् पूर्णेऽतीते वा काले यद्यात्मनो वस्त्राणामसत्ता ततो वास्तव्यसाधवः परिभुञ्जते न तत्र कश्चित् स्थापनादिदोषः । अथ नास्ति वस्त्राणामसत्ता गृहीतानि वा यैः प्रयोजनं ततस्तथैव स्थापयन्ति । अथ ज्ञायते यथा -- ते ततोऽपि दवीयांसमन्यं देशं गतास्ततस्तान् गतान् ज्ञात्वा “छड्डुंति" परिष्ठापयन्तीत्यर्थः ॥ ६३१ ॥ तदेवं कस्येति पृष्टे प्रक्षेपकादयो दोषाः सुनिर्णीता भवन्तीत्यावेदितम् । अथ कस्येति पृष्टे यो यादृशमाशङ्कावचनं ब्रूयात् तदेतदभिधित्सुराहे-
20
दमए दूभगे भडे, समणच्छन्ने अ तेणए ।
न य नाम न बत्तव्वं, पुट्ठे रुट्ठे जहावयणं ।। ६३२ ॥
'द्रमके' दरिद्रे ‘दुर्भगे' अनिष्ठे 'भ्रष्टे' राज्य (ज) पदच्युते " समणच्छन्ने "त्ति भावप्रधानत्वात् श्रमणशब्दस्य श्रामण्येन - श्रमणवेषेण च्छन्ने- आच्छादितगार्हस्थ्ये 'स्तेनके' चौरे प्रथमं कस्येति 25 पृष्टे ततः स्वहृदयसमुत्थ्या शङ्कया 'रुष्टे' कषायिते तस्य समाधानविधानार्थं न च नाम न वक्तव्यम् किन्तु वक्तव्यमेव वचनस्यानतिक्रमेण 'यथावचनं' यथायोगमाशङ्कापनोदकं वाक्यमित्यर्थः । तच्च यथावसरं पुरस्ताद् वक्ष्यते ॥ ६३२ ॥ तत्र प्रथमं द्रमकद्वारं विवृणोति - किं दमओ हं भंते !, दमगस्स वि किं मे चीवरा नत्थी । दमण व कायव्वो, धम्मो मा एरिसं पावे ॥ ६३३ ॥
30
कस्येति पृष्टः कोऽपि ब्रूयात् — भदन्त ! भवद्भिः किमहं द्रमकः सम्भावितो येनैवं पृच्छ्यते ?; यद्वा यद्यप्यहं द्रमकस्तथाऽपि किं मे चीवराण्यपि न सन्ति ? किन्तु सन्त्येव; किञ्च द्रुमकेणापि धर्मः कर्त्तव्यः, कुतः ? इत्याह-मा ईदृशं दारिद्र्योपद्रवलक्षणं दुःखं भूयः प्राप्नुया
३ स्थशङ्क मो० ॥
१ 'जनमुत्पन्नं तत' भा० ॥
Jain Education International
२ 'राह नियुक्तिकार : मो० ॥
For Private & Personal Use Only
www.jainelibrary.org