________________
भाष्यगाथाः १२४-६२९] पीठिका ।
लिंगत्थेसु अकप्पं, सावग-नीएसु उग्गमासंका। इड्डि अपवेस साविग, इडिस्स व उग्गमासंका ।। ६२७ ॥ एमेव मामगस्स वि, सड्ढी भज्जा उ अन्नहिं ठवए ।
निव तप्पिडविवज्जी, मा होज्ज तदाहडं तेणे ॥ ६२८ ।। ये श्रमण-श्रमणीजना लिङ्गमात्रधारिणस्ते उद्गमादिभिर्दोषैरशुद्धानि वस्त्राणि गृह्णन्ति खय-5 मेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषु लिङ्गस्थेषु 'अकल्प्यम्' अकल्पनीयमिति हेतोः साधवो न गृह्णन्ति, ततस्ते लिङ्गस्थाः संविमबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः 'यदि साधवो वस्त्राणि गवेषयेयुः तदा प्रददध्वम्' इति कृत्वा । तथा श्रावकेषु उपलक्षणत्वात् श्राविकासु निजकेषु-सम्बन्धिषु भ्रातृ-भगिन्यादिषु उद्गमदोषाशङ्कया साधवो न गृह्णीयुरिति तेऽपि तथैवान्यत्र स्थापयेयुः । 'ऋद्धिमतः' 10 श्रेष्ठि-सार्थवाहादेहे यतस्ततः प्रवेशो न लभ्यन्ते, तस्य पत्नी श्राविका, सा भक्तिवशादन्यत्र प्रक्षिपेत् ; यद्वा स ऋद्धिमान् पाषण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् तेषु साधूनामुदमाशङ्का, ततो निमन्त्रिता अपि न खीकुर्युः तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् ॥६२७॥ _ 'एवमेव' ऋद्धिमत्प्रकारेणैव 'मामाकस्यापि' 'प्रान्तत्वेनेालुत्वेन वा कस्यापि स्वगृहे प्रवेश न ददाति' इत्येवंलक्षणस्य भार्या श्राद्धिका भक्तिभरप्रेरिता सती तथैवान्यस्मिन् गृहे स्थाप-15 येत् । 'नृपः' राजा सोऽप्यन्यत्र स्वपुरुषैः प्रक्षेपयेत् , यतस्तस्य-राज्ञः पिण्डम्-आहार-वस्त्रादिलक्षणं वर्जितुं शीलं येषां ते तत्पिण्डविवर्जिनः साधवः । किमुक्तं भवति ?-कोऽपि राजा खभावत एव भद्रकः श्रावको वा, ततः साधवोऽत्यर्थमभ्यर्थिता अपि 'न कल्पते राजपिण्डः' इति हेतोयदा न गृह्णन्ति तदा सः 'यथा तथा पुण्यमुपार्जयामि' इति विचिन्त्यान्यत्र वस्त्राणि स्थापयेत् । स्तेनस्यापि वस्त्रं न गृह्णन्ति, मा भूत् तदाहृतं' स्तेनाहृतं तीयं वस्त्रमिति, ततः 10 सोऽपि संयतभद्रकः 'मदीयं न खीकुर्वन्ति' इत्यन्यत्र प्रक्षिपेत् ।। ६२८ ॥ उपसंहारमाह
एए उ अघिप्पंते, अन्नहिँ सन्निक्खिवंति समणट्ठा ।
निक्खेवओ वि एवं, छिन्नमछिन्नो उ कालेण ।। ६२९॥ 'एते' श्रमणादयोऽनन्तरोक्तकारणैः 'अगृह्यमाणे' वस्त्रे 'अन्यस्मिन्' भावितकुलादौ 'श्रमणार्थ' साधूनामर्थाय संनिक्षिपन्ति इत्युक्तः प्रक्षेपकः । सम्प्रति निक्षेपकः प्ररूप्यते--25 अथ प्रक्षेपक-निक्षेपकयोः कः प्रतिविशेषः ? उच्यते-साधूनामेवार्थाय या वस्त्रस्य स्थापना स प्रक्षेपकः, यत् पुनः प्रथमं खार्थ निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः, सोऽपि 'एवं' प्रक्षेपकवद् द्रष्टव्यः । इयमत्र भावना-यथा प्रक्षेपकः श्रमणादिषु स्तेनान्तेषु स्थानेषु भावितः तथा निक्षेपकोऽपि भावनीयः । यस्तु विशेषस्तं दर्शयति-“छिन्न" इत्यादि । स निक्षेपकः कालेन च्छिन्नो वा स्यादच्छिन्नो वा । छिन्नो नाम निर्धारितः, यदि वयं देशान्तरं 30 गताः सन्त एतावतः कालादर्वाग् न प्रत्यागच्छामः ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः
१°त्, कुतः? इति चेद् अत आह-"तपिडविवजी" तस्य पिण्डम् भा० ॥ २ व इति कृत्वा । किमुक्तं भा० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org