SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-भाष्य-वृत्ति के बृहत्कल्पसूत्रे अएण व तु भट्टा, ठवियं गेहे न गिण्हह से ॥ ६२४ ॥ ‘कस्येदम् ?' इति पृष्टः कोऽपि ब्रूयात् — कस्मान्न ज्ञास्यथ यूयम् ? ज्ञास्यथैव, तथाप्यस्मा॑न् पृच्छथ, पृच्छतां च कथयाम : - युष्मदर्थमेव कृतमेतद् वस्त्रम्, वाशब्द उत्तरापेक्षया विक ल्पार्थः, युष्मदर्थमेव क्रीतं धौतम्, आदिशब्दाद् धूपित - वासितादिपरिग्रहः । अमुकेन वा 5 युष्मदर्थमस्मद्गृहे स्थापितम्, यतः 'से' तस्यामुकस्य गेहे न गृह्णीथ यूयमिति ॥ ६२४ ॥ अथ यदुक्तं "तुग्भट्ट कयं " ति तत्र मूलगुणकृतं वा स्यादुत्तरगुणकृतं वा । अथ के मूलगुणाः ? के चोत्तरगुणाः ? इत्याह १८६ [ अनुयोगाधिकारः तण विणण संजयट्ठा, मूलगुणा उत्तरा उ पजणया । गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो ।। ६२५ ।। 10 इह संयतार्थं वस्त्रनिप्पत्तिहेतोर्यत् 'तननं' तानपरिकर्म ' वितननं च ' वानपरिकर्म क्रियते एतौ मूलगुणौ मन्तव्यौ । 'उत्तरा' उत्तरगुणरूपा 'पायनता' यद् वस्त्रं निष्पन्नं सत् खलिकां पाय्यते, उपलक्षणमिदम्, तेन यद् मोटयित्वा सलेषु प्रक्षिप्यते, तदादयो धावन- धूपनादयश्च वस्त्रस्योत्तरगुणा द्रष्टव्याः । अत्र चतुर्भङ्गी – तनन - वितनने संयतार्थं पायनमपि संयतार्थम् १, तनन-वितनने संयतार्थं पायनं स्वार्थम् २, तनन-वितनने स्वार्थं पायनं संयतार्थम् ३, तनन15 वितनने स्वार्थ पायनमपि स्वार्थम् ४ । अत्राद्येषु त्रिषु गुरुका गुरुका लघुकाश्च तपः- कालाभ्यां विशेषिताः प्रायश्चित्तम् । तद्यथा – प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेन च गुरवः, द्वितीयेsपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः, तृतीये चत्वारो लघुकाः कालेन गुरवस्तपसा लघवः । “चरमए सुद्धु”त्ति 'चरमे' चतुर्थे ङ्गे द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वाच्छुद्धः ॥ ६२५ ॥ अथ प्रक्षेपकादयो दोषाः कथं भवेयुः ? इत्यत आह 20 समणे समणी सावग, साविग संबंधि इड्डि मामाए । राया तेणे पक्खेव अ निक्खेवगं जाणे ।। ६२६ ॥ षष्ठी-सप्तम्योरर्थं प्रत्यभेदात् श्रमणस्य श्रमण्याः श्रावकस्य श्राविकायाः सम्बन्धिन ऋद्धिमतो मामाकसत्काया भार्याया राज्ञः स्तेनस्य च सम्बन्धी प्रक्षेपको भवति । प्रक्षेपणं प्रक्षेपकः "नानि पुंसि च " ( सि० ५ -३ - १२१ ) इति भावे णकप्रत्ययः, यथा अरोचनं अरोचक 25 इत्यादि । निक्षेपकमप्येतेष्वेव स्थानेषु जानीयादिति सङ्घहगाथासमासार्थः ॥ ६२६ ॥ साम्प्रतमेनामेव व्याख्यानयति १°स्मान् पृच्छतां कथ्यते - युष्म० भा० ॥ २ इह यत् तन्तुवायैरुभयपार्श्वयोः कीलकयुगलं निखाय तानकरूपतया तन्तवस्तन्यन्ते तत् तननम्, यत् पुनरधस्तनोपरितनयोस्तानकतन्तु सन्तानयोरन्तराले नलकप्रयोगेण तन्तव उभयतो वितन्यन्ते - व्यूयन्ते तद् वितननम्, तननं च वितननं च तनन-वितनने संयतार्थ यत् क्रियेते एतौ भा० ॥ ३ यद् वस्त्रं कूांचकेण खलिकां पाय्यते तत् पायनम्, पायनमेव पायनता, प्राकृतत्वात् स्वार्थे तल्प्रत्ययः, उपलक्षणत्वाद् घृष्ट-मृष्ट-धावन-धूपनादयोऽपि वस्त्र' भा० ॥ ४ भङ्गे द्वाभ्यामपि मूलोत्तरगुणाभ्यां निर्दोषत्वात् शुद्धः भा० ॥ ५ " मामाएण वा रायाएण तेणएण वा पक्खेवय त्ति पक्खित्तं होजा" इति चूर्णिः ॥ ६ नियुक्तिगाथा मो० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy