________________
भाष्यगाथाः ६२०-२३] पीठिका।
१८५ यति-'अहो ! अमी महात्मानस्तावद् यतस्ततः कारणं विना न वस्त्राणि याचन्ते न वा गृह्णन्ति, मद्भाग्यसम्भारप्रेरिता एव सन्तोषपोषितवपुषोऽपि मामित्थं याचन्ते, तत् प्रयच्छामि यथेच्छममीषां वस्त्राणि, मम पुनरन्यान्यपि भविष्यन्ति' इति परिभाव्य सर्वाण्यपि हर्षप्रकर्षारूढः प्रदद्यात् , ततोऽभिनववस्त्रनिर्मापण-क्रयणा दिनोद्गमदोषा भवेयुः । विपरिणामो वा नवधर्मणः कस्यचिदुपासकस्य स्यात् , यथा—हुं ज्ञातममीषां श्रमणानां रहस्यम् , य एतेषा-5 मुपासको भवति तमेवमेव याच्याभिरुद्वेजयन्तीति, ततश्च धर्म प्रति विप्रतिपद्येत । यद्वा "ओहावण"ति अपनाजना भवेत् । इयमत्र भावना-तस्य श्रावकस्य कदाचिद् वस्त्राणि न भवेयुः ततो मिथ्यादृष्टयो ब्रवीरन्-अहो! अमीषां प्रतिबोधप्रसादः, यद् एतद्योग्यान्येतदीयोपासकानां वस्त्राणि न सम्पद्यन्ते लोको वा ब्रूयात्-यद्येतेषां खकीया अपि श्रावका न प्रयच्छन्ति तदाऽन्यः को नाम दास्यति ? इति । ततः श्रावकं नावभाषेत ॥ ६२१ ॥ 10 __ स श्रावको लोकलज्जया तदानीं दत्त्वा वा "उड्डुरुस्से" ति प्रद्वेषं यायात्-किमेतैरेतदपि न ज्ञातं श्रावकस्य यद् वस्त्रादि खाधीनं तदयाचितमेव ददाति ? किं तेन याचितेन ? अतः परं न गच्छाम्यमीषां सकाशमिति । यत एते दोषास्ततः श्रावकं नावभाषेतेति पूर्वगाथाया अन्त्यपदेन सम्बन्धः । यस्मादुपासकस्यैषा सामाचारी-यत् 'प्राशुकम्' एषणीयम् 'उद्वरितम्' अधिकं वस्त्रं तत् 'स्वयमेव' अयाचितोऽपि निमन्घ्य ददाति । तेन तं मुक्त्वा यान्य-15 न्यानि भावितानि साधुसंसर्गवासितानि सम्यक्त्वाद्यव्युत्पन्नमतीनि यथाभद्रकाणि कुलानि तेष्वेवावभाषणं कर्त्तव्यम् । कथम् ? इति चेद् उच्यते-तत्र यः प्रमाणभूतः पुरुषस्तं धर्मलाभयित्वा ब्रुवते-श्रावक ! साधवस्तव सकाशमागताः सन्ति, प्रयोजनमस्माकमीदृशैर्वस्त्रैरिति । यदि पुनः 'धन्यस्त्वम् , श्लाघ्यं ते जन्म जीवितम् , अनर्घ्यं सुपात्राय वस्त्रपात्रादिदानम्' इति तद्गुणविकत्थन-वस्त्रदानफलोत्कीर्तनादि करोति तदा मासलघु । ततः स याच्यमान एवं 20 ब्रूयात्- 'अहो ! मे धन्यता यस्य गृहाङ्गणं जङ्गमा इव कल्पपादपा अमी भगवन्तः खपादपल्लवैः पवित्रितवन्तः' इत्यभिधाय खयमन्येन वा गृहमध्याद् वस्त्रमानयेद् आनाययेद्वा । ततस्तस्मिन् 'नीणिइति आनीते पृच्छयते-कस्यैतद् वस्त्रम् ? किं वा आसीत् ? उपलक्षणत्वात् किं भविष्यति ? क च स्थापितमासीत् ? । यदि 'कस्यैतद् ?' इति न पृच्छन्ति तदा मासिकम् ॥ ६२२ ॥ अथ को दोषो यद्येवं न परिपृच्छयते ? उच्यते
कास तऽपुच्छियम्मी, उग्गम-पक्खेवेगाइणो दोसा ।
किं आसऽपुच्छियम्मी, पच्छाकम्मं पवहणं व ॥ ६२३ ॥ 'कस्य सम्बन्धि ?' 'इति' एवमपृष्टे उद्गमदोषाः प्रक्षेपकादयश्च दोषा भवेयुः, आदिग्रहणानिक्षेपकपरिग्रहः । 'किमासीद् ?' इत्यपृष्टे पश्चात्कर्मदोषः प्रवहणदोपो वा सम्भवेत् । एतच्चोचरत्र भावयिष्यते ॥ ६२३ ॥
30 अथ 'कस्य' इति पृच्छायामविधीयमानायां कथमुद्गमदोपा भवेयुः ? उच्यते
कीस न नाहिह तुम्भे, तुभट्ट कयं व कीय-धोयाई । १°यम्मि उ° ता० ॥ २ °वमातिणो ता० ॥
वृ०२४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org