SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८४ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनुयोगाधिकारः भूयान् लाभो भूयादिति लाभनिमित्तम् ? । अत्र सूरिः प्रत्युत्तरयति — "न" त्ति न भवति देवताऽऽराधननिमित्तं न वा लाभनिमित्तं किन्तूपयोगनिमित्तम्, उपयोजनमुपयोगः चिन्ता विमर्श इत्यनर्थान्तरम्, स च गणनाप्रमाणेन प्रमाणप्रमाणेन वा किंप्रमाणं वस्त्रं ग्रहीतव्यम् ? को वा याचितः सन् 'ध्रुवम्' अवश्यं दास्यति । यो ज्ञायते निश्चितमेष वास्यति स एव 6 प्रथमं याच्यते ॥ ६१९ ॥ अथ प्रथमं कायोत्सर्गः केनोत्सारणीयः ? इत्युच्यतेरायणिओ उस्सारे, तस्सऽसतोमो वि गीतों लद्धीओ | अग्गीतो विसद्धी, मग्गइ इअरे परिच्छंति ।। ६२० ॥ यः 'रात्निकः' रत्नाधिकः सोऽपि यदि सलब्धिकस्तदा स एव प्रथमं कायोत्सर्गम् ' उत्सारयति' पारयति । 'तस्य' रत्नाधिकस्य सलब्धिकस्य 'असति' अभावे 'अवमोऽपि' पर्यायलघु10 रपि गीतार्थो यः सलब्धिकः स प्रथमं पारयति । अथ नास्ति गीतार्थः सलब्धिकस्तत आहअगीतार्थोऽपि यः सलब्धिकः स प्रथमं पारयति, स एव चाग्रणीत्वं कुर्वन् वस्त्राणि मार्गयति । 'इतरे' गीतार्थाः ‘परीक्षन्ते' 'किं कल्पते ? न वा ?' इत्येवं पृष्ठतो लग्ना वस्त्रेषणा विधि विचारयन्तीत्यर्थः ॥ ६२० ॥ अनन्तरोदितसामाचारीवैतथ्यकरणे प्रायश्चित्तमाह— उस्सगाई वितहं, खलंत अण्णोष्णओ अ लहुओ उ । उगम विष्परिणामो, ओभावण सावगं न तओ ॥ ६२१ ॥ दाउं व उड्डरुस्से, फासुव्वरियं तु सो सयं देव | भावियकुलओभासण, नीणिइ कस्सेअ किं आसी ॥ ६२२ ॥ उत्सर्गः–कायोत्सर्गस्तमादिं कृत्वा सर्वेषु पदेषु सामाचारीं वितथां कुर्वाणस्य लघुमासः प्रायश्चित्तम् । तद्यथा— कायोत्सर्गं न कुर्वन्ति, आवश्यकं न शोधयन्ति, यमकसमकं कायो20 त्सर्गं न कुर्वन्ति, दण्डकं भूमौ लगयन्ति, पृथक् पृथग् गुरूणामादेशं मार्गयन्ति, 'इच्छाकारेण संदिसह 'ति न भणन्ति, आचार्याः 'लाभो 'त्ति न भणन्ति साधवः 'किह गिण्हामो 'त्ति न भणन्ति, आचार्याः 'जह गहियं पुबसाहूहिं' ति न भणन्ति साधवः 'जस्स य जोगं' ति न भणन्ति, एतेषु सर्वेषु असामाचारी निष्पन्नं मासलघु । आवश्यकीं न कुर्वन्ति लघु रात्रिन्दिवपञ्चकम् । “खलंत” चि स्खलन्त उत्तिष्ठन्ति गुरुवचनं वा स्खलयन्ति मासलघु । “अन्नन्नउत्ति 25 अन्यतश्चान्यतश्च व्रजन्ति न परस्परमेकया ऋजुश्रेण्या तत्रापि लघुको मासः । इत्थं सामाचारीं सम्पूर्ण कृत्वा यदि निर्गताः श्रावकमवभाषन्ते मासलघु, यतस्तस्मिन्नवभाप्यमाणे बहवो दोषाः । तानेवाह - " उग्गम" इत्यादि । कोऽपि श्रावकः साधुभिर्वस्त्रं याचितः स चिन्त " I 15 १ रातिणिओ ता० ॥ २ गीत ल° ता० ॥ ३ " काउस्सग्गं ण करेंति, आवासयं ण सोधिंति ०, खलंति समयं वाण करेंति, दंडए भूमिं छिवावेंति पादं वा ०, अण्णण्णओ जंति ण वि पिंडणं काउस्सग्गं काउं दिसावेंति अण्णो विजुयओ संदिसावेति अन्नो विजुयओ चेव०, संदिसध त्ति ण भांति ०, आयरिया लाभ त्तिण भांति ०, किध गिण्हामो त्तिण भांति ०, आवस्सिया जधासंदिद्वेल्लय त्ति ण भणति ०, आवस्सियं ण करेंति ५, जस्स य जोगं ण भणति ०, एवं करेत्ता णिग्गता जति सावयं ओभासंति ० ।" इति चूर्णिः ॥ ४°न्ति रात्रि भा० ले० कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy