________________
15
भाष्यगाथाः ६१४-१९] पीठिका। मुत्पादनीयानि ततः को विधिः? इत्याह-'एवमपि' सूत्रपौरुषीहापनेऽप्येकसङ्घाटकेनालभ्यमाने बहूनां चोत्पादयितव्ये सङ्घाटकमेकैकं व्यापारयेत् । तेऽपि तथैव याचन्ते "भिक्खं चिअ हिंडता" इत्यादि । अथ तथापि न प्राप्नुयुस्ततः “वृन्दसाध्यानि कार्याणि" इति वचनाद् वृन्देन पर्यटन्ति ॥ ६१६ ।। आह च
एवं पि अलब्भंते, मुत्तूण गणिं तु सेसगा हिंडे ।
गुरुगमणे गुरुग ओहामऽभियोगो सेहहीला य ॥ ६१७ ॥ 'एवमपि' बहुभिः सङ्घाटकैरप्यलभ्यमाने 'गणिनम्' आचार्यमेकं मुक्त्वा शेषाः सर्वेऽपि वृन्देन हिण्डन्ते । यदि गुरवः स्वयमेव पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः । "ओहामि"ति 'यद्यमी आचार्या अपि सन्त एवमितरभिक्षुवत् पर्यटन्ति नूनमेतेषामाचार्यत्वमपीदृशमेव' इति महती गुरूणामपभ्राजना भवेत् । तथा काचिदविरतिका सर्वाङ्गीणलावण्य-10 श्रियाऽलङ्कतमाचार्यमवलोक्य मदनपरवशा सती “अभियोग"त्ति कार्मणं कुर्यात् । अन्यती. र्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुञ्जीरन् । अवभाषितेषु वा वस्त्रेवलब्धेषु शैक्षाणामाचार्यविषया हीला स्यात्-दृष्टा आचार्याणां लब्धिः, स्वयमपि याचमानाचीवराण्यपि न लभन्ते । यस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयं शेषाः सर्वेऽपि पर्यटन्ति ॥६१७॥
सव्वे वा गीयत्था, मीसा व जहन्न एकु गीयत्थो ।
इकस्स वि असईए, करिति तो कप्पियं एकं ॥ ६१८ ॥ ते च वृन्देन पर्यटन्तः सर्वेऽपि गीतार्था भवेयुः मिश्रा वा । मिश्रा नाम केचन गीतार्थाः केचनागीतार्थाः । तत्र यदि बहवो गीतार्था न प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणीभूय पर्यटति । अथ नास्त्याचार्य मुक्त्वाऽपरः कोऽपि गीतार्थः तत एकस्थापि गीतार्थस्य 'असति' अभावे यः प्रगल्भः सलब्धिकश्च तमेकं वस्त्रैषणामुत्सर्गापवादस-20 हितां कथयित्वा कल्पिकं कुर्वन्ति गुरव इति ।। ६१८ ॥ अथ तैः केन विधिना गन्तव्यम् ? उच्यते
आवाससोहि अखलंत समग उस्सग्ग दंडग न भूमी।
पुच्छा देवय लंभे, न किंपमाणं धुवं दाहि ॥ ६१९ ॥ इह समयपरिभाषया कायिकी-संज्ञाव्युत्सर्जनमवश्यं क्रियत इति व्युत्पत्तेरावश्यकमभिधी- 25 यते, तस्य शोधिः-शोधनं कार्यम् , वस्त्राणामुत्पादनाय गतानां भविष्यति न वेति प्रथममेवाऽऽवश्यकं शोधनीयमित्यर्थः । “अखलंत"त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथा न भवति तथोत्थातव्यम् ; यद्वा गुरुवचनमस्खलद्भिः-अविकुट्टयद्भिरुत्थातव्यम् । “समग"ति सर्वैरपि समकमुत्थानं कर्त्तव्यम् , न पुनरेके उत्थिताः प्रतीक्षन्ते अन्येऽद्याप्युपविष्टाः; अथवा समकं सर्वैरुपयोगसम्बन्धी कायोत्सर्गः कर्तव्यः । दण्डकाः कायोत्सर्गादारभ्य यावन्नाद्यापि 30 प्रथमलाभस्तावन्न भूमौ स्थापयितव्याः । अपरे पुनर्यावद् व्यावृत्त्य न प्रतिश्रयमागताः तावदिति ब्रुवते । "पुच्छ"ति शिष्यः पृच्छति-किंनिमित्तं कायोत्सर्गः क्रियते ? किं देवताऽऽ. राधनार्थ यदसावाराधिता सती वस्त्राण्युत्पादयति ? आहोश्चित् कायोत्सर्गप्रभावादेव वस्त्राणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org