________________
१८२
सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे
[ अनुयोगाधिकारः
--
af भावना कार्या । अथ प्रकारान्तरेणैतदेवाह - " होहिइ व" इत्यादि । भविष्यति वा गन्धकाषायिकादिकमेव एष्यति - - आगामिनि काले- वर्षा दावयोग्यमित्यभिसन्धाय 'अनागतं ' वर्षाकालादर्वागेव यदुज्झेत् तदपि कालोज्झितम् ॥ ६१३ || अथ भावोज्झितमाह - लडूण अन्न वत्थे, पोराणे सो उ देइ अन्नस्स ।
सो वि अनिच्छइ ताई, भावुझियमेवमाईयं ॥ ६१४ ॥
कोऽपि कस्यापि पार्श्वे 'लब्ध्वा' प्राप्य 'अन्यानि' अभिनवानि वस्त्राणि ततः स पुराणानि 'अन्यस्य' कस्यचिद् ददाति सोऽपि च 'तानि' दीयमानानि जीर्णानीति कृत्वा नेच्छति तदेतद् भावं - जीर्णतापर्यायमाश्रित्योज्झितं भावोज्झितमेवमादिकं ज्ञातव्यम् । तदेवं समर्थिता तुरीयाऽपि प्रतिमा ॥ ६१४ ॥ " गच्छवासिनश्चतसृभिः प्रतिमाभिर्वस्त्रं गवेषयन्ति " ( गा० ६०९) 10 इत्युक्तम्, तत्र परः प्रश्नयति - कथा सामाचार्या ते गवेषयन्ति ? इत्युच्यते
जं जस्स नत्थि वत्थं, सो उ निवेएइ तं पवत्तिस्स ।
सो व गुरूणं साह, निवेइँ वावारए वा वि ॥ ६१५ ॥
‘यद्’ वर्षाकल्पा-ऽन्तरकल्पादिकं 'यस्य' साधोः 'नास्ति' न विद्यते वस्त्रं सः 'तद्' विवक्षितवस्त्राभावस्वरूपं निवेदयति 'प्रवर्तिनः ' प्रवर्त्तकाभिधानस्य तृतीयपदस्थगीतार्थस्य । सहि 15 सकलस्यापि गच्छस्य चिन्तानियुक्तः, सर्वेऽपि साधवः स्वं स्वं प्रयोजनं तस्याग्रे निवेदयन्ति । ततः 'सोऽपि ' प्रवर्त्तकः 'गुरूणाम्' आचार्याणां " साहइ" त्ति कथयति विज्ञपयतीत्यर्थः, यथा—भट्टारकाः ! नास्त्यमुकस्य साधोरमुकं वैस्त्रमिति । गच्छे चेयं सामाचारी — यदुताssभिग्रहिका भवन्ति, आभिग्रहिका नाम 'अस्माभिः सकलस्यापि गच्छस्य वस्त्राणि वा पात्राणि वा पूरणीयानि अपरेण वा येन प्रयोजनम्' इति प्रतिपन्नाभिग्रहाः, तेषामाचार्यों निवेदयति, 20 यथा--आर्याः ! नास्त्यमुकस्यामुकं वस्त्रम् । तेऽपि 'अनुग्रहोऽयमस्माकम्' इत्यभिधाय स्वाभिग्रहपरिपालनाय खयमेवोत्पादयन्ति । अथ न सन्त्याभिग्रहिकाः ततः स यदि वस्त्रार्थी साधुः स्वयमसमर्थ उत्पादयितुं ततोऽन्यं वस्त्रोत्पादनसमर्थं गुरवो व्यापारयेयुः, यथा - वस्त्राणि गवेषय । वाशब्दः पक्षान्तरद्योतने । 'अपिः' सम्भावनायाम् || ६१५ ॥
तत्राभिग्रहिकेण व्यापारितेन वा केन विधिना वस्त्रमुत्पादयितव्यम् ? उच्यतेभिक्खं चिय हिंडता, उप्पॉयंत सइ विइअं पढमासु ।
एवं पि अलब्भंते, संघाडेक्केक वावारे ।। ६१६ ॥
सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामेव हिण्डमाना वस्त्रमुत्पादयन्ति । अथ भिक्षामटतो न लभेरन् ततः 'असति' इत्यलाभे द्वितीयस्यां पौरुप्यामर्थग्रहणं हापयित्वा तस्यामप्यलाभे ‘प्रथमायां' सूत्रपौरुप्यामुत्पादयँन्ति । अथैकः सङ्घाटकः पर्यटन् न लभेत बहूनां वा साधूना
1
5
25
१ राणे ते तुदेति ता० ॥ २ य एव ता० ॥ ३ वेद वा ता० ॥ ४ वस्त्रम् । ततः स आचार्यो यदि सन्ति गच्छमध्ये 'आभिग्रहिकाः' 'अस्माभिः स भा० ॥ ५ पाए असता• ॥ ६ मानौ एकसङ्घाटकसाधू वस्त्रमुत्पादयतः । अथ भिक्षामदन्तौ न लभेयातां ततः 'असति' भा० ॥
७ यतः भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org