SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६१०-१३] पीठिका । सम्प्रति चतुर्थी व्याख्यानयति दव्वाइ उज्झियं दवओ उ थूलं मए न घेत्तव्वं । दोहि वि भावनिसिहूं, तमुज्झिओभट्टष्णोभटुं ॥ ६११॥ इह चतुर्थी प्रतिमा-उज्झितधर्म वस्त्रं गवेषणीयम् , तच्च चतुर्दा-द्रव्योज्झितं आदिशब्दात् क्षेत्र-काल-भावोज्झितपरिग्रहः । तत्र द्रव्योज्झितं यथा-केनचिदगारिणा प्रतिज्ञातं 'मया स्थूलं वस्त्रं न ग्रहीतव्यम्' अन्यदा तस्य तदेव केनापि वयस्यादिनोपढौकितम् , स च ब्रूते'पर्याप्तं ममैतेन, नाहं गृह्णामि' इतरोऽपि ब्रूते- 'ममाप्यलमेतेन, नाहमात्मना दत्तं पुनः स्वीकरोमि' इत्येवं द्वाभ्यामपि दायक-ग्राहकाभ्यां भावतः-परमार्थतो निसृष्टं-परित्यक्तम्, अमुष्मिन् देश-काले यदि जिनकल्पिकादिः साधुरवभाषितमनवभाषितं वा लभेत तद् द्रव्योज्झितं ज्ञातव्यम् । इह चावभाषितं याचितमनवभाषितं याच्यां विना खयमेव ताभ्यां प्रदत्तम् ।। ६११॥ 10 अथ क्षेत्रोज्झितमाह अमुगिच्चगं न भुंजे, उवणीयं तं च केणई तस्स । जं वुझे कप्पडिया, सदेस बहुवत्थ देसे वा ॥ ६१२॥ "अमुकिच्चगं" अमुकदेशोद्भवं वस्त्रं 'न भुञ्जे' न परिधान-प्रावरणोपभोगमानयामि, यथा'लाटविषयोद्भवं वस्त्रं मया न परिभोक्तव्यम्' इति केनचित् प्रतिज्ञा कृता भवेत् , अथ कदा-15 चित् तस्य "तं च"त्ति चशब्दस्यावधारणार्थत्वात् तदेव 'उपनीतम्' उपढौकितं केनचित् , ततः पूर्वोक्तनीत्या ताभ्यामुभाभ्यामपि परित्यक्तं क्षेत्रप्राधान्यविवक्षया क्षेत्रोज्झितं ज्ञातव्यम् । "जं वुझे कप्पडिय"ति वाशब्दः प्रकारान्तरोपदर्शने, प्रकारान्तरेण क्षेत्रोज्झितं प्ररूप्यते इत्यर्थः । यद् वस्त्रजातम् 'उज्झेयुः' परित्यजेयुः कार्पटिकाः खदेशं प्रति व्यावृत्त्याऽऽगच्छन्तः खदेशाद्वा देशान्तरं प्रस्थिता अपान्तराले बद्दपायामरण्यानीं मत्वा 'कि तस्कराणां हेतोर्निरर्थकं 20 वस्त्रभारं वहामः ?' इति कृत्वा यदुज्झन्ति यद्वा 'बहुवस्त्रे' वस्त्रप्रचुरे देशेऽन्यत् सुन्दरतरं वस्त्रं लब्ध्या पुरातनं परिहरेयुः एतत् सर्वमपि क्षेत्रोज्झितम् ॥ ६१२ ॥ कालोज्झितमाह कासाइमाइ जं पुव्वकालजोग्गं तदनहिं उज्झे । होहिइ व एस्सकाले, अजोग्गयमणागयं उज्झे ॥ ६१३ ॥ कषायेण रक्ता काषायी-गन्धकाषायिकेत्यर्थः, सा हि स्वभावत एवातिशीतला ग्रीष्मर्तुभ- 25 रेऽपि सकलसन्तापनिर्वापिणी शास्त्रेषु पठ्यते; यत उक्तम् सरसो चंदणपंको, अग्घइ सरसा य गंधकासाई । पाडल सिरीस मल्लिय, पियाइँ काले निदाहम्मि । आदिग्रहणेन शीतकालोचितवस्त्रपरिग्रहः । ततश्च काषाय्यादिकं यद् वस्त्रं पूर्वस्मिन्ग्रीष्मादौ काले योग्यम्-उपयोगि तद् अन्यस्मिन्' वर्षाकालादौ 'उज्झेत्' परित्यजेत् । इय-30 मत्र भावना--गन्धकाषायिकादिकं शीतवीर्यवस्त्रं यत् केनापि श्रीमता प्रीप्मे परिभुज्यते तदेव वर्षास्वनुपयोगित्वात् परिहियते, तत् तथापरिहियमाणं कालोज्झितम् , एवमुष्णवीर्यादि १ न भोत्तव्वं ता॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy