________________
सनियुक्ति-भाष्य-वृत्तिके वृहत्कल्पसूत्रे [अनुयोगाधिकारः प्रावृत्य च पुरातनं स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्र अन्तरा-अपान्तराले यद् याच्यते तदन्तरावस्त्रम् । तथा उज्झनम्-उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि
"धर्मो यमोपमा-पुण्य-खभावा-ऽऽचार-धन्वसु ॥ (हैमाने० द्विख० ३३५)
सत्सङ्गेऽहत्यहिंसादौ, न्यायोपनिषदोरपि ।" (हैमाने० द्विख० ३३६) । इति वचनादनेकेष्वर्थेषु रूढः तथाऽपीह प्रक्रमात् खभावार्थो द्रष्टव्यः, तत उज्झितमेव धर्मः-खभावो यस्य तदुज्झितधर्म परित्यागाहमित्यर्थः । एतच्च वस्त्रैषणासूत्रक्रमप्रामाण्यात् चतुर्थमेव चतुर्थकं भवति । एताश्चतस्रः 'प्रतिमाः' प्रतिपत्तयो वस्त्रस्य ग्रहणप्रकारा इत्यर्थः, “गच्छ"ति सूचकत्वात् सूत्रस्य गच्छवासिनामेताश्चतस्रोऽपि भवन्ति । "जिणे"त्ति जिनकल्पिकानां यावजीवं द्वयोरुपरितनयोः आङ्-मर्यादया ग्रहः-खीकार आग्रहः, द्वयोरेवोपरितन10 योग्रहणं नाधस्तनयोयोरित्यर्थः । तत्राप्यन्यतरस्यामभिग्रहः, किमुक्तं भवति ?—यदा तृती
यस्यां ग्रहणं न तदा चतुर्थ्याम् , यदा चतुर्थ्यां न तदा तृतीयायामिति नियुक्तिगाथासमासार्थः ॥ ६०९॥ अथैनामेव विवृणोति
__उद्दिट्ट तिगेगयरं, पेहा पुण दगु एरिसं भणइ ।
अन्न नियत्थऽत्थुरिए, इतरऽवर्णितो उ तइयाए ॥ ६१०॥ 15 'उद्दिष्टं' गुरुसमक्षं प्रतिज्ञातं यद् जघन्य-मध्यमोत्कृष्टलक्षणस्य त्रिकस्य एकेन्द्रिय-विकलेन्द्रिय
पञ्चेन्द्रियनिष्पन्नवस्त्रत्रिकस्य वा एकतरम् तदेवादृष्टं सद् याच्यमानमुद्दिष्टमिति भाविता प्रथमा प्रतिमा । अथ द्वितीया भाव्यते-“पेहा पुण"त्ति प्रेक्षावस्त्रं पुनरिदम् , यथा-कोऽपि साधुः कस्याप्यगारिणः सत्कं वस्त्रं दृष्ट्वा भणति-'यादृशमेतद् वस्त्रं दृश्यते तादृशमिदमेव वा मे
प्रयच्छ' इति भणन् तदेव वस्त्रं हस्तप्रान्तेन दर्शयति तत् प्रेक्षावस्त्रेमिति द्वितीया प्रतिमा । 20 सम्प्रति तृतीया भाव्यते-तस्याश्चान्तरीयोत्तरीयवस्त्रयुगलद्वारेण प्ररूपणा कर्तव्या । तथा च श्रीमद्आचाराङ्गे द्वितीये श्रुतस्कन्धे प्रथमेऽध्ययने प्रथमोद्देशके सूत्रमिदम्
अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तंजहाअंतरिज्जगं वा उत्तरिज्जगं वा ।।
अथ किमिदमन्तरीयम् ? किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधा25 नमित्यर्थः, उत्तरीयं नाम प्रावरणं प्रच्छदपटीत्यर्थः; अथवाऽन्तरीयं यत् शय्यायामधस्तनं वस्त्रमास्तीर्यते, उत्तरीयं पुनर्यत् तदुपरि प्रस्तीर्यते । तस्मिन्नन्तरीयोत्तरीयवस्त्रयुगले 'अन्यस्मिन्' अभिनवे "नियत्थ"त्ति निबसिते परिहिते प्रावृते वेत्यर्थः । द्वितीयव्याख्यानापेक्षया शय्याया उपरि "अत्युरिइ"ति आस्तीर्णे 'इतरत्' पुराणमन्तरीयोत्तरीययुगलम् 'अपनयन्' स्थापयितुमना इत्यत्रान्तरा यद् मार्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा ॥ ६१० ॥
१ इत्येव अन्त° मो० ॥ २ 'उद्दिष्टं' प्राग्निरूपितशब्दार्थम् , जघन्य भा० ॥ ३ एकतरमदृष्टमेव याच्य° भा० ॥ ४ दृश्यते ईदृशेनैव ममापि प्रयोजनम् , यद्यस्ति भवतामेपणीयं तत ईदृशं प्रयच्छ भा० ॥ ५ स्त्रम् । भाविता द्विती° भा० ॥ ६ प्रच्छादनपटी मो० ॥ ७°नम् । व्याख्याता तृती° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org