Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 234
________________ भाष्यगाथाः ६४५-५० ] पीठिका। प्रेक्ष्यमाणे च यदि ‘मण्यादिकं' मणि-हिरण्य-सुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः, यथा-निरीक्षध्वं समन्तादपि वस्त्रमिदम् , यदि निरीक्ष्यमाणैस्तैः खयमेव दृष्टं तदा लष्टम् , नो चेत् ततः साधवः "दाइंति"त्ति दर्शयन्ति-इदं यौष्माकीणं किमप्युपनिबद्धमस्ति । आह एवमभिधीयमाने कथमधिकरणदोषो न भवति ? इति उच्यतेअल्पीयानेवायं दोषः, 'अशिष्टे' अकथिते पुनः शैक्षस्यावधावितुकामस्य तद् द्रव्यमुपादानं भवेत् , तद् गृहीत्वोत्प्रव्रजेदित्यर्थः; अगारिणो वा महान्तमुड्डाहं कुर्युः, यथा-वस्त्रेण सार्द्ध स्तेनितमस्मद्रव्यमेभिः श्रमणैः । अत एवं प्रभूततरो दोषो मा भूदिति कथ्यते ॥६४७॥ उपसंहरन्नाह एवं तु गविढेसु, आयरिया दिति जस्स जं नत्थि । सममागेसु कएसु व, जहराइणिया भवे बीओ॥ ६४८॥ 10 'एवम्' उक्तप्रकारेणैव वस्त्रेषु गवेषितेषु यथासम्भवं लब्धेषु च गुरूणां समीपमागम्य यथावदालोच्य च वस्त्राणि विधिवद् दर्शयति, तत आचार्या यस्य साधोर्यद् जघन्यं मध्यममुत्कृष्टं वा वस्त्रं नास्ति तसै तद् ददतीति प्रथमः प्रकारः । पश्चार्थेन द्वितीयमाह-समेषुतुल्येषु भागेषु कृतेषु, साधूनां सङ्ख्यामनुमाय समांशतया वस्त्रेषु विभक्तेष्विति भावः । वाशब्दः प्रकारान्तरद्योतने । 'यथारत्नाधिकं' यो यो रत्नाधिकस्तस्मै तस्मै प्रथमं दीयते इत्ययं 15 भवेद् द्वितीयो दानप्रकार इति ॥ ६४८॥ उक्तो वस्त्रकल्पिकः । सम्प्रति पात्रमिति पात्रकल्पिकद्वारम् , अत्रापि अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा। दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ॥ ६४९॥ निरूपणा इयं गाथा तथैव (गाथा ४७१) द्रष्टव्या । नवरमिह सूत्रमाचारान्तर्गतं पात्रैषणाध्य-20 यनम् , तत्राप्राप्ते यदि पात्रानयनाय प्रेषयति तदा प्रायश्चित्तं चत्वारो गुरुकाः 'द्वाभ्यामपि गुरवः' तपसा कालेन च । अथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थः कथितस्तदा चत्वारो लघुकास्तपसा गुरवः । अथ कथितोऽर्थः परं नाद्यापि सम्यगधिगतः तदाऽपि चत्वारो लघुकाः कालेन गुरवः । अथाधिगतोऽर्थः श्रद्धानविषयीकृतश्च परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः तपसा कालेन च लघुकाः । अतः सूत्रं पाठयित्वा तस्यार्थं कथयित्वा सम्यगधिगते अद्धिते 25 चार्थे पात्राय परीक्ष्य प्रेषणीय इति ॥ ६४९ ॥ तच्च पात्रं चतुर्विधम् , तद्यथा नामं ठवणा दविए, भावम्मि चउन्विहं भवे पायं ।। एसो खलु पायस्सा, निक्खेवो चउबिहो होइ ।। ६५०॥ १ गृहीत्वा प्रत्र भा० विना । “सो तं घेत्तुं उप्पव्वएना" चूर्णौ ॥ २ ट्रेस आ ता० ॥ ३ वितिओ ता० ॥ ४°ति पात्रकल्पि° भा० त० विना ॥ ५ गुरुकाः तप° भा० ॥ ६ °द्याप्यधिगतः अधिगतो वा न सम्यक् श्रद्धानविषयीकृतस्तदाऽपि चत्वारो लघुकाः कालेन गुरवः । अथ सम्यक् श्रद्धत्ते परमद्याप्यपरीक्षितस्तदाऽपि चतुर्लघुकाः द्वाभ्यामपि लघवः [तपसा कालेन च। ततः सूत्रं पाठयित्वा भा० ॥ पात्र वृ०२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296