Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 228
________________ भाष्यगाथाः १२४-६२९] पीठिका । लिंगत्थेसु अकप्पं, सावग-नीएसु उग्गमासंका। इड्डि अपवेस साविग, इडिस्स व उग्गमासंका ।। ६२७ ॥ एमेव मामगस्स वि, सड्ढी भज्जा उ अन्नहिं ठवए । निव तप्पिडविवज्जी, मा होज्ज तदाहडं तेणे ॥ ६२८ ।। ये श्रमण-श्रमणीजना लिङ्गमात्रधारिणस्ते उद्गमादिभिर्दोषैरशुद्धानि वस्त्राणि गृह्णन्ति खय-5 मेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषु लिङ्गस्थेषु 'अकल्प्यम्' अकल्पनीयमिति हेतोः साधवो न गृह्णन्ति, ततस्ते लिङ्गस्थाः संविमबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः 'यदि साधवो वस्त्राणि गवेषयेयुः तदा प्रददध्वम्' इति कृत्वा । तथा श्रावकेषु उपलक्षणत्वात् श्राविकासु निजकेषु-सम्बन्धिषु भ्रातृ-भगिन्यादिषु उद्गमदोषाशङ्कया साधवो न गृह्णीयुरिति तेऽपि तथैवान्यत्र स्थापयेयुः । 'ऋद्धिमतः' 10 श्रेष्ठि-सार्थवाहादेहे यतस्ततः प्रवेशो न लभ्यन्ते, तस्य पत्नी श्राविका, सा भक्तिवशादन्यत्र प्रक्षिपेत् ; यद्वा स ऋद्धिमान् पाषण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् तेषु साधूनामुदमाशङ्का, ततो निमन्त्रिता अपि न खीकुर्युः तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् ॥६२७॥ _ 'एवमेव' ऋद्धिमत्प्रकारेणैव 'मामाकस्यापि' 'प्रान्तत्वेनेालुत्वेन वा कस्यापि स्वगृहे प्रवेश न ददाति' इत्येवंलक्षणस्य भार्या श्राद्धिका भक्तिभरप्रेरिता सती तथैवान्यस्मिन् गृहे स्थाप-15 येत् । 'नृपः' राजा सोऽप्यन्यत्र स्वपुरुषैः प्रक्षेपयेत् , यतस्तस्य-राज्ञः पिण्डम्-आहार-वस्त्रादिलक्षणं वर्जितुं शीलं येषां ते तत्पिण्डविवर्जिनः साधवः । किमुक्तं भवति ?-कोऽपि राजा खभावत एव भद्रकः श्रावको वा, ततः साधवोऽत्यर्थमभ्यर्थिता अपि 'न कल्पते राजपिण्डः' इति हेतोयदा न गृह्णन्ति तदा सः 'यथा तथा पुण्यमुपार्जयामि' इति विचिन्त्यान्यत्र वस्त्राणि स्थापयेत् । स्तेनस्यापि वस्त्रं न गृह्णन्ति, मा भूत् तदाहृतं' स्तेनाहृतं तीयं वस्त्रमिति, ततः 10 सोऽपि संयतभद्रकः 'मदीयं न खीकुर्वन्ति' इत्यन्यत्र प्रक्षिपेत् ।। ६२८ ॥ उपसंहारमाह एए उ अघिप्पंते, अन्नहिँ सन्निक्खिवंति समणट्ठा । निक्खेवओ वि एवं, छिन्नमछिन्नो उ कालेण ।। ६२९॥ 'एते' श्रमणादयोऽनन्तरोक्तकारणैः 'अगृह्यमाणे' वस्त्रे 'अन्यस्मिन्' भावितकुलादौ 'श्रमणार्थ' साधूनामर्थाय संनिक्षिपन्ति इत्युक्तः प्रक्षेपकः । सम्प्रति निक्षेपकः प्ररूप्यते--25 अथ प्रक्षेपक-निक्षेपकयोः कः प्रतिविशेषः ? उच्यते-साधूनामेवार्थाय या वस्त्रस्य स्थापना स प्रक्षेपकः, यत् पुनः प्रथमं खार्थ निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः, सोऽपि 'एवं' प्रक्षेपकवद् द्रष्टव्यः । इयमत्र भावना-यथा प्रक्षेपकः श्रमणादिषु स्तेनान्तेषु स्थानेषु भावितः तथा निक्षेपकोऽपि भावनीयः । यस्तु विशेषस्तं दर्शयति-“छिन्न" इत्यादि । स निक्षेपकः कालेन च्छिन्नो वा स्यादच्छिन्नो वा । छिन्नो नाम निर्धारितः, यदि वयं देशान्तरं 30 गताः सन्त एतावतः कालादर्वाग् न प्रत्यागच्छामः ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः १°त्, कुतः? इति चेद् अत आह-"तपिडविवजी" तस्य पिण्डम् भा० ॥ २ व इति कृत्वा । किमुक्तं भा० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296